SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कार: सू. ३ पौरस्त्यरुचक निवासिनीनामव सरवर्णनम् सर्वप्रभा ६, चैव, श्रीः होश्चैव उत्तरतः ॥ १ ॥ तथैव यावद् वन्दिवा भगवतस्तीर्थङ्करस्य तीर्थङ्करमातुच उत्तरेण चामरहस्तगताः आगायन्त्यः परिगायन्त्यः तिष्ठन्ति । तस्मिन्काले तस्मिन् समये विदिगुरुचकवास्तव्याः चतस्रो दिक्कुमारी महत्तरिकाः यावद् विहरन्ति, तद्यथा - चित्रा च १, चित्रकनका २, शतेरा ३, सौदामिनी ४ । तथैव यावद न भेतव्यमिति कृत्वा भगवतस्तीर्थङ्करस्य तीर्थङ्करमाश्च चतसृषु विदिक्षु दीपिका हस्तगता आगायन्त्यः परिगायन्त्यः तिष्ठन्ति इति । तस्मिन्काले तस्मिन् समये मध्यरुचकवास्तव्याः चतस्रो दिक्कुमारी महत्तरिकाः स्वकैः स्वकैः कूटैः तथैव यावद् विहरन्ति तद्यथा रूपा १, रूपासिका २, सुरूपा ३, रूपकावती ४ । तथैव यावद् युष्माभि र्न भेतव्यमिति कृत्वा भगवतस्तीर्थङ्करस्य चतुरङ्गुल वर्ज नाभिनालं कल्पयन्ति, कल्पयित्वा विदरकं खनन्ति, खनित्वा विदर के नाभिम् निदधति । निधाय रत्नैश्च वत्रैश्च पूरयन्ति पूरयित्वा हरितालकाभिः पीठं बध्नन्ति, पीठं बध्वा त्रिदिशि त्रीणि कदलीगृहाणि विकुर्वन्ति, ततः खलु तेषां कदलीगृहाणां बहुमध्य देशभागे त्रीणि चतु शाकानि विकुर्वन्ति, ततः खलु तेषां चतुःशालकानां बहुमध्यदेशभागे त्रीणि सिंहासनानि विकुर्वन्ति तेषां खलु सिंहासनानाम् अयमेतद्रूपो वर्णव्यासः प्रज्ञप्तः सर्वो वर्णको भणितव्यः । ततः खलु ताः रुचकमध्यवास्तव्याः चतस्रो दिक्कुमार्यो महत्तराः यत्रैव भगवान् तीर्थङ्करः तीर्थङ्कारमाता च तत्रैव उपागच्छन्ति, उपागत्य भगवन्तं तीर्थङ्करं करतलसंपुटेन गृह्णन्ति तीर्थङ्करमातरं च बाहाभिगृह्णन्ति, गृहीत्वा यत्रैव दाक्षिणात्यं कदलीगृह यत्रैव चतुःशालकं यत्रैव सिंहासनं तत्रैव उपागच्छन्ति, उपागत्य भगवन्तं तीर्थकरं तीर्थङ्करमातरं च सिहासने निपादयन्ति, निषाद्य शतपाकसहस्रपाकैः तैलैः अभ्यङ्गयन्ति, अभ्यङ्गयित्वा सुरभिणा गन्धवर्त्तकेन उद्वर्त्तयन्ति, उद्वय भगवन्तं तीर्थङ्करं करतलपुटेन तीर्थङ्करमातरं च बाह्वोर्ग्रह्णन्ति गृहीत्वा यत्रैव पौरस्त्यं कदलीगृहं यत्रैव चतुः शालं यत्रैव सिंहासनं तत्रैव उपागच्छन्ति, उपागत्य भगवन्तं तीर्थङ्करं तीर्थङ्करमातरं च सिंहासने निषादयन्ति, निषाद्य त्रिभिरुदकैर्मज्जयन्ति तद्यथा - गन्धोदकेन १, पुष्पोदकेन २, शुद्धोदकेन ३, मज्जयित्वा सर्वालङ्कारविभूषितौ कुर्वन्ति कृत्वा भगवन्तं तीर्थङ्करं करतलपुटेन तीर्थङ्करमातरं च वाहाभिः गृह्णन्ति, गृहीत्वा यत्रैौत्तराहं कदलीगृहं यत्रैव चतुःशालकं यत्रैव सिहासनं तत्रैव उपगच्छन्ति उपागत्य भगवन्तं तीर्थङ्करं तीर्थङ्करमातरं च सिंहासने निषादयन्ति, निषाद्य आभियोगान् देवान् शब्दयन्ति, शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! क्षुद्रहिमवतो वर्षधरपर्वतात् गोशीर्ष वन्दन काष्ठानि संहरत ततः खलु ते आभियोगाः देवाः ताभिः रुचकमध्यवास्तव्याभिः चतसृभिः दिक्कुमारी महत्तरिकाभिः एवमुक्तासन्तः हृष्टतुष्टाः यावद् विनयेन वचनं प्रतीच्छन्ति, प्रतीष्य क्षिप्रमेव क्षुद्रहिमवतो वर्षधरपर्वतात् सरसानि गोशीर्षचन्दनकाष्ठानि संहरन्ति ततः खलु ताः मध्यरुचकवास्तव्याः चतस्रो दिवकुमारीमहत्तरिका : शरकं कुर्वन्ति कृत्वा अरणि घटयन्ति अरणिं घटयित्वा शरकेण अरणि मध्नन्ति, मथित्वा अग्नि पातयन्ति पातयित्वा अनि सन्धुक्षन्ति सन्धुक्ष्य गोशीर्षचन्दनकाष्ठानि " જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર , ५८३
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy