________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे
छाया - तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागे, अत्र खलु महदेक भवनं प्रज्ञप्तम्, क्रोशमायामेन अर्द्धक्रोश विष्कम्भेण देशोनकं क्रोशमूर्ध्वमुच्चत्वेन अनेकस्तम्भशतसंनिविष्टं प्रासादीयं दर्शनीयम् । तस्य खलु भवनस्य त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि तानि खलु द्वाराणि पञ्चधनुःशतानि ऊर्ध्वमुच्चत्वेन सार्द्धतृतीयानि धनुः शतानि विष्कम्भेण, ताव देव च प्रवेशेनाश्वेतानि वरकनकस्तूपिकानि यावत् वनमालाः ज्ञातव्याः । तस्य खलु भवनस्य अन्तः बहुसमरणीओ भूमिभागः प्रज्ञप्तः स यथा नामकः आलिङ्गपुष्कर इति वा । तस्य खलु वहुमध्यदेश भागे, अत्र खलु महती एका मणिपीठिका प्रज्ञप्ता । सा खलु मणिपीठिका पञ्चधनुः शतानि आयामविष्कम्भेण, सार्द्धतृतीयानि धनुःशतानि बाहल्येन, सर्वमणिमयी अच्छा । तस्याः खलु मणिपीठिकायाः उपरि अत्र खलु महदेकं शयनीयं प्रज्ञसम् । शयनीयवर्णको भणितव्यः । तत् खलु पद्मम् अन्येन अष्टशतेन पदमानां तदर्द्धांच्चत्वप्रमाणमात्राणां सर्वतः समन्तात् संपरिक्षिप्तम् । तानि खलु अर्द्धयोजनमायामविष्कम्भेण, क्रोशं बाहल्येन, दश योजनानि उद्वेधेन क्रोशमुच्छ्रितानि जलान्तात् सातिरेकाणि दश योजनानि सर्वाग्रेण तेषां खलु पद्मानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-वज्रमयानि मूलानि यावत् कनकमयी कर्णिका । सा खलु कर्णिका कोशमायामेन, अर्द्धक्रोशं बाहल्येन, सर्वकनकमयी अच्छा इति । तस्याः खलु कर्णिकाया उपरि बहुसमरमणीयो यावत् मणिभिरुपशोभितः। तस्य खलु पद्मस्य अवरोत्तरे उत्तरे उत्तरपौरस्त्ये अत्र खलु श्रिया देव्याः चतसृणां सामानिकसाहस्रीणां चतस्रः पद्मसाहस्त्र्यः प्रज्ञप्ताः । तस्य खलु पद्मस्य पौरस्त्ये अत्र खलु श्रिया देव्याः चतसृणां महत्तरिकाणां चत्वारि पद्मानि प्रज्ञप्तानि तस्य खल पद्मस्य दक्षिणपौरइत्ये श्रिया देव्याः आभ्यन्तरिकायाः परिषदः अष्टानां देवसाहस्रीणाम् अष्ट पद्मसाहस्त्रयः प्रज्ञप्ताः । दक्षिणे मध्यमपरिषदौ दशानां देवसाहस्रीणां दश पद्मसाहस्त्र्यः प्रज्ञप्ताः । दक्षिणपश्चिमे बाह्यायाः परिषदो द्वादशानां देवसाहस्रीणां द्वादश पद्मसाहस्त्र्यः प्रज्ञप्ताः, पश्चिमे सप्ता नामनीकाधिपतीनां सप्त पद्मानि प्रज्ञप्तानि । तस्य खलु पद्मस्य चतुर्दिशि सर्वतः समन्तात् अत्र खलु श्रिया देव्याः षोडशानामात्मरक्षकदेव साहस्रीणां षोडश पद्मसाहस्त्र्यः प्रज्ञप्ताः तत् खलु त्रिभिः पद्मपरिक्षेपैः सर्वतः समन्तात् संपरिक्षिप्तम्, तद्यथा - आभ्यन्तरकेण१, मध्यमेन २, बाह्य ३ आभ्यन्तर के पद्मपरिक्षेपे द्वात्रिंशत् पद्मशतसाहस्त्र्यः प्रज्ञप्ताः, मध्यमके पद्मपरिक्षेपे चत्वारिंशत् पद्मशतसाहस्त्र्यः प्रज्ञप्ताः, बाह्य के पद्मपरिक्षेपे अष्टचत्वारिंशत् पद्मशतसाहस्त्र्यः प्रज्ञप्ताः । एवमेव सपूर्वापरेण त्रिभिः पद्मपरिक्षेपैः एका पद्मकोटीविंशतिश्च पद्मशतसाहस्त्रयो भवन्तीति आख्यातम् ।
२०
9
अथ केनार्थेन भदन्त ! एवमुच्यते पद्महूदो पद्महदः, गौतम | पद्म हदः खलु तत्र २ देशे तत्र २ बहूनि उत्पलानि यावत् शतसहस्रपत्राणि पद्मदवर्णाभानि श्रीश्चात्र देवी महर्द्धिका त्योपस्थितिका परिवसति तद् एतेनार्थेन यावत अदुत्तरम् (अथ ) च खलु गौतम ! पद्महूदस्य शाश्वतं नामधेयं प्रज्ञप्तम् । न कदाचित् नासीद् म० ॥ सु० ३ ॥
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર