SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २६ विभागमुखेन कच्छविजयनिरूपणम् ३१३ विदेहे वर्षे उत्तरकच्छो नाम विजयः प्रज्ञप्तः ?, गौतम ! वैताढयस्य पर्वतस्य उत्तरेण नीलवतो वर्षधरपर्वतस्य दक्षिणेन माल्यवतो वक्षस्कारपर्वतस्य पौरस्त्येन चित्रकूटस्य वक्षस्कारपर्वतस्य पश्चिमेन अत्र खलु जम्बूद्वीपे द्वीपे यावत् सिध्यन्ति, तथैव नेतव्यं सर्वम्, क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे उत्तरकच्छे विजये सिन्धुकुण्डं नाम कुण्डं प्रज्ञप्तम् ?, गौतम ! माल्यवतो वक्षस्कारपर्वतस्य पौरस्त्येन ऋषभकूटस्य पश्चिमेन नीलवतो वर्षधरपर्वतस्य दाक्षि णात्ये नितम्बे अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे उत्तरार्द्धकच्छविजये सिन्धुकुण्डं नाम कुण्डं प्रज्ञप्तम् ?, पष्टि योजनानि आयामविष्कम्भेण यावद् भवनम् अर्थों राजधानी च नेतव्या, भरतकुण्डसदृशं सर्व नेतव्यम्, यावत् तस्य खलु सिन्धुकुण्डस्य दाक्षिणात्येन तोरणेन सिन्धुमहानदी प्रव्यूढा सती उत्तरार्द्धकच्छविजयम् इर्यती २ सप्तभिः सलिलासहस्रैः आपूर्यमाणा २ अधस्तमिस्रगुहायाः वैताढयपर्वतं दारयित्वा दक्षिणकच्छविजयं इर्यती २ चतुर्दशभिः सलिलासहौः समग्रा दक्षिणेन सीतां महानदी समाप्नोति, सिन्धु महानदी प्रवहे च मूले च भरतसिन्धुसदृशी प्रमाणेन यावद् द्वाभ्यां वनषण्डाभ्यां सम्परिक्षिप्ता । ___ क्व खलु भदन्त ! उत्तरार्द्धकच्छविजये ऋषभकूटो नाम पर्वतः प्रज्ञप्तः ?, गौतम ! सिन्धुकुण्डस्य पौरस्त्येन गङ्गाकुण्डस्य पश्चिमेन नीलवतो वर्षधरपर्वतस्य दाक्षिणात्ये नितम्बे अत्र खलु उत्तरार्द्धकच्छविजये ऋषभकूटो नाम पर्वतः प्रज्ञप्तः, अष्ट योजनानि ऊर्ध्वमुच्चत्वेन तदेव प्रमाणं यावद् राजधानी सा नवरम् उत्तरेण भणितव्या। ___क्व खलु भदन्त ! उत्तरकच्छे विजये गङ्गाकुण्डं नाम कुण्डं प्रज्ञतम् ?, गौतम ! चित्रकूटस्य वक्षस्कारपर्वतस्य पश्चिमेन ऋषभकूटस्य पर्वतस्य पौरस्त्येन नीलवतो वर्षधरपर्वतस्य दाक्षिणात्ये नितम्बे अत्र खलु उत्तरार्द्धकच्छे गङ्गाकुण्डं नाम कुण्डं प्रज्ञप्तम्, षष्टिं योजनानि आयामविष्कम्भेण तथैव यथा सिन्धुः यावद वनपण्डेन च सम्परिक्षिता । अथ केनार्थेन भदन्त ! एवमुच्यते-कच्छो विजयः कच्छो विजयः?, गौतम ! कच्छे विजये वैताढयस्य पर्वतस्य दक्षिणेन सीताया महानद्या उत्तरेण गङ्गाया महानद्याः पश्चिमेन सिन्ध्वा महानद्याः पौरस्त्येन दक्षिणार्द्धकच्छविजयस्य बहुमध्यदेशभागे, अत्र खलु क्षेमा नाम राजधानी प्रज्ञप्ता विनीता राजधानी सदृशी भणितव्या, तत्र खलु क्षेमायां राजधान्यां; कच्छो नाम राजा समुत्पद्यते, महाहिमवत्० यावत् सर्वं भरतसाधनं भणितव्यम् निष्क्रमणवर्जे शेषं सर्व भणितव्यं यावद् भुङ्क्ते मानुष्यकानि मुखानि, कच्छनामधेयश्च कच्छोऽत्र देवो महद्धिको यावत् पल्योपमस्थितिक परिवसति, स एतेनार्थेन गौतम ! एवमुच्यते-कच्छो विजयः कच्छो विजयः यावत् नित्यः ॥सू०२६॥ ___ अब प्रदक्षिणा के क्रम से विजयादि के निरूपण में यही पहला है, इस हेतु से प्रथम विभागमुख से कच्छाविजय का निरूपण करने की इच्छा से सूत्रकार હવે પ્રદક્ષિણાના કમથી વિજ્યાદિના નિરૂપણમાં આજ પહેલ છે, એ હેતુથી પહેલાં विनामुमयी ४२७ (वयनु नि३५५४ ४२पानी छायी सूत्रस२ सूत्र 38 –'कहिणं ज० ४० જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy