________________
प्रकाशिका टीका चतुर्थवक्षस्कारः सू. १८ गन्धमादनवक्षस्कारपर्वतनिरूपणम् १६७ परिभुजमाणाण वा जाव ओराला मणुण्णा जाव गंधा अभिणिस्तवंति, भवे एयारूवे? जो इणटे समटे, गंधमायणस्स णं इत्तो इतराए चेव जाव गंधे पण्णते, से एएणटेणं गोयमा ! एवं वुच्चइ गंधमायणे वक्खारपव्वए२, गंधमायणे य इत्थ देवे महिड्डिए परिवसइ, अदुतरं च णं सासए णामधिज्जे इति॥सू०१८॥ ।
छाया-क्व खलु भदन्त ! महाविदेहे वर्षे गन्दमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, गौतम ! नीलवतो वर्षधरपर्वतस्य दक्षिणेन मन्दरस्य पर्वतस्य उत्तरपश्चिमेन गन्धिलाबत्या विजयस्य पौरस्त्येन उत्तरकुरूणां पश्चिमेन अत्र खलु महाविदेहे वर्षे गन्दमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः त्रिशतं योजनसहस्राणि द्वे च नवोत्तरे योजनशते षट् च एकोनविंशतिभागान् योजनस्य आयामेन नीलवद्वर्षधरपर्वतान्तेन चत्वारि योजनशतानि ऊध्र्वमुच्चत्वेन चत्वारि गव्यतशतानि उद्वेधेन पञ्चयोजनशतानि विष्कम्भेण तदनन्तरं च खलु मात्रया २ उत्सेधोद्वेधपरिवृद्ध या परिवर्द्धमान: २ विष्कम्भपरिहान्या परिहीयमानः २ मन्दरपर्वतान्तेन पञ्चयोजनशतानि ऊर्ध्वमुच्चत्वेन पञ्चगव्युतशतानि उद्वेधेन अगुलस्य असंख्येयभागं विष्कम्भेण प्रज्ञप्तः गजदन्तसंस्थानसंस्थितः सर्वरत्नमयः अच्छ:, उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां सर्वतः समन्तात् संपरिक्षिप्तः, गन्धमादनस्य खलु वक्षष्कार पर्वतस्य उपरि बहुसमरणणीयो भूमिभागः यावद् आसते।
गन्धमादने खलु वक्षस्कारपर्वते कतिकूटानि प्रज्ञप्तानि, गौतम ! सप्तकूटानि, तद्यथासिद्धायतनकूटम् १, गन्धमादनकूटम् २, गन्धिलावतीकूटम् ३, उत्तरकुरूकूटम् ४, स्फटिककूटम् ५, लोहिताक्षकूटम् ६, आनन्दकूटम् ७। क्ब खल भदन्त ! गन्धमादने वक्षस्कारपर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! मन्दरस्य पर्वतस्य उत्तरपश्चिमेन गन्धमादनकूटस्य दक्षिणपौरस्त्येन, अत्र खलु गंधमादनवक्षस्कारपर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तम् , यदेव क्षुद्रहिमवति सिद्धायतनकूटस्य प्रमाणं तदेव एतेषां सर्वेषां भणितव्यम् , एबमेव विदिशासु त्रीणि कूटानि भणितव्यानि, चतुर्थ तृतीयस्य उत्तरपश्चिमेन पञ्चमस्य दक्षिणेन, शेषाणि तु उ तर दक्षिणेन, स्फटिकलोहिताक्षयो भौगङ्करा भोगवत्यो देवते, शेपेषु सदृशना. मका देवाः, षट्स्वपि प्रासादावतंसका राजधान्यो विदिशासु, अथ केनार्थेन भदन्त ! एवमु. च्यते-गन्धमादनो वक्षस्कारपर्वतः २, गौतम ! गन्धमादनस्य खलु वक्षस्कारपर्वतस्य गन्धः स यथा नामकः कोष्ठपुटानां वा यावत् पिष्यमाणानां वा उत्कोर्यमाणानां वा विकीर्यमाणानां वा परिभुज्यमाणानां वा यावद उदारा मनोज्ञा यावद् गन्धा अभिनिःस्रवन्ति, भवेद एतद्रूपः ? नो अयमर्थः समर्थः, गन्धमादनस्य खलु इतइष्टतरक एव यावद् गन्धः प्रज्ञप्तः, स एतेनार्थेन गौतम ! एवमुच्यते गन्धमादनो वक्षस्कारपर्वतः २, गन्धमादनश्वात्र देवो महर्दिकः परिवसति, अदुतरं च खलु शाश्वतं नामधेयमिति ॥ सू० १८ ॥
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર