SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४० जम्बूद्वीपप्रज्ञप्तिसूत्रे gas सिहे वासहरपव्बए२१, गोयमा ! जिसहे णं वासहरवच्वए कूडा णिसह संठाणसंठिया उसमसंठाणसंठिया, सिहे य इत्थ देबे महिद्वी जाव लिओ मट्टिइए परिवसइ, से तेणट्टणं गोयमा ! एवं बुच्चइ सिहे वासहरपव्वए २ ॥ सू० १६ ॥ छाया - तस्य खलु तिगिच्छिहदस्य दाक्षिणात्येन तोरणेन हरिन्महानदी प्रव्यूढासती सप्त योजन सहस्राणि चत्वारि च एकविंशानि योजनशतानि एकं च एकोनविंशतिभागं योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महाघटमुखप्रवृत्तिकेन यावत् सातिरेक चतुर्योजनशतिकेन प्रपातेन प्रपतति, एवं यैव हरिकान्ताया वक्तव्यता सैव हरितः अपि नेतव्या, जिहिकायाः कुण्डस्य द्वीपस्य भवनस्य तदेव प्रमाणम् अर्थोऽपि भणितव्यः यावद् अधो जगतीं दारयित्वा षट् पञ्चाशता सलिलासहस्रैः समग्रा पौरस्त्यं लवणसमुद्रं समाप्नोति, तदेव प्रवहे च मुखमूले च प्रमाणम् उद्वेधश्व यो हरिकान्तायाः यावद् वनषण्ड संपरिक्षिप्ता, तस्य खलु तिगिच्छिदस्य औतराहेण तोरणेन शीता महानदी प्रव्यूढा सती सप्तयोजनसहस्राणि चत्वारि च एकविंशानि योजनशतानि एकं च एकोनविंशति भागं योजनस्य उत्तराभिमुखी पर्वतेन गत्वा महाघटमुखप्रवृत्तिकेन यावत् सातिरेक चतुर्योजनशतिकेन प्रपातेन प्रपतति, शीतोदा खल महानदी यतः प्रपतति अत्र खलु महत्येका जिह्निका प्रज्ञप्ता, चत्वारि योजनानि आयामेन पञ्चाशतं योजनानि विष्कम्भेण योजनं बाहल्येन मकरमुखविवृतसंस्थानसंस्थिता सर्ववज्रमयी अच्छा, शीतोदा खलु महानदी यत्र प्रपतति अत्र खलु महदेकं शीतोदा प्रपात कुण्डं नाम कुण्डं प्रज्ञप्तम् चत्वारि अशीतानि योजनशतानि आयामविष्कम्भेण पञ्चदश अष्टादशानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण अच्छम् एवं कुण्डवक्तव्यता नेतव्या यावत् तोरणाः । तस्य खलु शीतोदा प्रपातकुण्डस्य बहुमध्यदेशभागः, अत्र खलु महानेकः शीतोदा द्वीपो नाम द्वीपः प्रज्ञप्तः, चतुष्पष्टि योजनानि आयामविष्कम्भेण द्वे द्वयुत्तरे योजनशते परिक्षेपेण द्वौ क्रोशावुच्छ्रितो जलान्तात् सर्ववज्रमयः अच्छः शेषं तदेव वेदिका वनषण्ड भूमिभाग भवनशयनीयार्थी भणितव्यः, तस्य खलु शीतोदा प्रपातकुण्डस्य औत्तराहेण तोरणेन शीतोदा महानदी प्रव्यूढा सती देवकुरु मेजमाना २ चित्र विचित्रकूट पर्वतौ निषेध देव कुरुसूरसुलसविद्युत्प्रभहदांश्च द्विधा विभजमाना २ चतुरशीत्या सलिला सहस्रैः आपूर्यमाणा २ भद्रशालवनमेजमाना २ मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसम्प्राप्ता पश्चिमाभिमुखी आवृत्ता सती अधोविद्युत्प्रभं वक्षस्कारपर्वतं दारयित्वा मन्दरस्य पर्वतस्य पश्चिमेन अपर विदेहं वर्ष द्विधा विभजमाना २ पञ्चभिः सलिलाशतसहस्रैः द्वात्रिंशता च सलिलासहस्रैः समग्रा अधो जयन्तस्य द्वारस्य जगतीं दारयित्वा पश्चिमेन लवणसमुद्रं समाप्नोति, शीतोदा खलु महानदी प्रवहे पञ्चाशतं योजनानि विष्कम्भेण योजनमुद्वेधेन, तदनन्तरं च खलु मात्रया मात्रया परिवर्द्धमाना २ मुखमूले पश्च योजनशतानि विष्कम्भेण दश योजनानि उद्वेधेन उभयोः पार्श्वयोः द्वाभ्यां જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy