________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे पलिओवमट्टिइए परिवसइ, से तेण?णं गोयमा! एवं बुच्चइ ॥सू०१४॥
छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे हरिवर्षे नाम वर्ष प्रज्ञप्तम् ?, गौतम ! निषधस्य वर्षधरपर्वतस्य दक्षिणेन महाहिमवद्वर्षधरपर्वतस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिमलवणसमुद्रस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे हरिवर्षे नाम वर्ष प्रज्ञप्तम् एवं यावत् पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रं स्पृष्टम् अष्ट योजनसहस्राणि चत्वारि च एकविंशानि योजनशतानि एकं च एकोनविंशतिभागं योजनस्य विष्कम्भेण, तस्य बाहा पौरस्त्यपश्चिमेन त्रयोदशयोजनसहस्राणि त्रीणि च एकषष्टानि योजनशतानि पटे च एकोनविंशतिभागान् योजनस्य अर्द्धभागं च आयामे नेति, तस्य जीवा उत्तरेण प्राचीनप्रती. चीनाऽऽयता द्विधा लवणसमुद्रं स्पृष्टा पौरस्त्यया कोटया पौरस्त्यं यावत् लवणसमुद्र त्रिसप्ततानि योजनसहस्राणि नव च एकोत्तराणि योजनशतानि सप्तदश च एकोनविंशतिभागान् योजनस्य अर्द्धभागं च आयामेन, तस्य धनुः दक्षिणेन चतुरशीतानि योजनसहस्राणि षोडश योजनानि चतुर एकोनविंशतिभागान योजनस्य परिक्षेपेण | हरिवर्षस्य खलु भदन्त ! वर्षस्य कीदृशकः आकारभावप्रत्यवत्तारः प्रज्ञप्तः ?, गौतम ! बहुसमरमणीयो भूमि भागः प्रज्ञप्तः यावद् मणिमिस्तृणैश्चोपशोभितः, एवं मणीनां तृणानां च वर्णो गन्धः स्पर्शः शब्दो भणितव्यः, हरिवर्षे खलु तत्र २ देशे तत्र २ बहवः क्षुद्राक्षुद्रिका एवं च य एव सुषमाया अनुभावः स एव अपरिशेषो वक्तव्य इति । क्व खलु भदन्त ! हरिवर्षे वर्षे विकटापाती नाम वृत्तवैताढयपर्वतः प्रज्ञप्तः ?, गौतम ! हरिता महानद्याः पश्चिमेन हरिकान्ताया महानद्याः पौरस्त्येन हरिवर्षस्य वर्षस्य बहुमध्यदेशमागः, अत्र खलु विकटापाती नाम वृत्तवैताढ्यपर्वतः प्रज्ञप्तः, एवं य एव शब्दापातिनो विष्कम्भोच्चत्वोद्वेधपरिक्षेपसंस्थानवर्णावासश्च स एव विकटापातिनोऽपि भणितव्यः, नवरम् अरुणो देवः पद्मानि यावत विकटापाति वर्णाभानि अरुणोऽत्र देवो महद्धिक एवं यावत् दक्षिणेन राजधानी नेतव्या, अथ केनार्थेन भदन्त ! एवमुच्यते हरिवर्ष वर्षम् ?, गौतम ! हरिवर्षे खलु वर्षे मनुजा अरुणा अरुणावभासाः श्वेताश्च शङ्खदलसन्निकाशाः, हरिवर्षश्चात्र देवो महद्धिको यावत् पल्योपमस्थितिकः परिवसति ॥सू०१४॥
टीका-'कहि णं भंते ! जंबुद्दीवे दीवे हरिवासे णामं वासे पन्नत्ते' क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे हरिवर्ष नाम वर्षे प्रज्ञप्तम् ?, 'गोयमा ! णिसहस्स वासहरपब्वयस्स दक्खिणेणं
हरिवर्षनामक क्षेत्रकी वक्तव्यता 'कहि णं भंते ! जम्बुद्दीवे दीये हरिवासे णामं वासे पण्णत्ते' टीकार्थ-गौतमस्वामीने प्रभु से इस सूत्र द्वारा ऐसा पूछा है-(कहि णं भंते !
હરિવર્ષ નામક ક્ષેત્રની વક્તવ્યતા 'कहि णं भंते ! जम्बुद्दीवे दीवे हरिवासे णाम वासे पण्णत्ते' इत्यादि 2014--गौतमे प्रभुने ॥ सूत्र 43 मेवा प्रश्न या छ ? 'कहि णं भंते जम्बुद्दीवे
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા