SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चन्द्रातिप्रकाशिका टीका प्रा० १-६ सू० ११ सूर्यस्य एकरात्रिन्दिवे संचरणम् ७१ तदा खलु अष्टादशमुहूत्र्तो दिवसो भवति चतुर्भिः एकषष्टिभागमुहूत्तैः ऊनः, द्वादशमुहर्ता रात्रिभवति चतुर्भिः एकषष्टिभागमुहूर्तः अधिका । एवं खलु एतेन उपायेन निष्क्रामन् सूर्यः तदनन्तरात् मण्डलात् तदनन्तरं मण्डलं संक्रामन् २ वे योजने अष्टचत्वारिंशतश्च एकष्टिभागान् योजनस्य एकैकं मण्डलम् पकैकेन रात्रिन्दिवेन विकम्पमानः २ सर्वबाह्य मण्डलम् उपसंक्रम्य चारं चरति। तावत् यदा खलु सूर्यः सर्वाभ्यन्तराद् मण्डलात् सर्वबाह्य मण्डलम् उपसंक्रम्य चारं चरति तदा खलु सर्वाभ्यन्तरं मण्डलं प्रणिधाय एकेन त्र्यशीतिकेन रात्रिन्दिवशतेन पञ्चदशोत्तरयोजनशतानि विकम्प्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्भवति, जघन्यकः द्वादशमुहूत्तों दिवसो भवति, एतत् खलु प्रथमं षण्मासम् । एतत् खलु प्रथमस्य षण्मासस्य पर्यवसानम् सू०११ व्याख्या—'ता' तावत् 'केवइयं कियत्कं कियत्परिमितं क्षेत्रं 'ते' तवमते 'एगमेगेणं राई दिएणं' एकैकेन रात्रिन्दिवेन अहोरात्रेण 'विकंपइत्ता २' विकम्प्य २ अवष्ठष्ठय २ विकम्पनं नाम स्व स्वमण्डलादहिः शनैर्गत्या निस्सरणमभ्यन्तरप्रवेशनं वा शनैर्गत्या स्पृष्ट्वा २ वेत्यर्थः 'मरिए' सूर्यः 'चारं चरई' चारं चरति, इति 'आहितेति' भाख्यातमिति 'वदेज्जा' वदेत् बदतु हे भगवन् इति प्रश्नः । भगवान् एतद्विषयेऽन्यतैर्थिकमतरूपाः सप्त प्रतिपत्तीः प्रदर्शयति'तत्थ खलु' इत्यादि । 'तत्थ तत्र सूर्यविकम्पनविषये खलु 'इमाओ' इमाः वक्ष्यमाणाः 'सत्त' सप्त-सप्त संख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परतीर्थिकमान्यता रूपाः 'पण्णत्ता' प्रज्ञप्ताः कथिताः । ताः काः ! इत्याह तं जहा' तयथा ता यथा-ता एव प्रदर्शयति 'तत्येगे' इत्यादि 'तत्य तत्र सप्तसु प्रतिपत्तिप्रतिपादकेषु मध्ये 'एगे' एके केचन प्रथमप्रतिपत्तिवादिनः ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आइंसु' आहुः कथयन्ति, किमाहुरित्याह'ता दो जोयणाई' इत्यादि 'ता' तावत् 'दो जोयणाई' द्वे योजने 'अददुचत्तालीसे' भर्द्धद्विचत्वारिंशतः, अौं द्विचत्वारिंशदिति द्विचत्वारिंशत्तमो मागो यत्र संख्यायां ते अर्द्धद्विचत्वारिंशतस्तान् अर्द्धाधिकैकचत्वारिंशत्संख्यकान् 'तेसीइसयभागे' घ्यशीतिशतभागान् व्यशीत्यधिकशतसम्बन्धिभागान् 'जोयणस्स' योजनस्य त्र्यशीत्यधिकशतसंख्यक (१८३) गर्योजने विभक्ते सति ये शेषा अधिकैकचत्वारिंशत्संख्यका भागाः [२९] तान् एतावद्योजनप्रमाणं क्षेत्रमित्यर्थः 'एगमेगेणं' एकैकेन 'राइंदिएणं' रात्रिन्दिवेन एकैकाहोरात्रकालेन 'विकंपइत्ता २, विकम्प्य २ शनैः शनैरुल्लङ्गयेत्यर्थः 'मरिए' सूर्यः 'चारं चरइ' चारं चरति, अथोपसंहारमाह-'एगे एवमाइंस' एके एवमाहुः, एके केचन प्रथमप्रतिपत्तिवादिनः एवं पूर्वकथितप्रकारेण आहुः कथयन्ति । इति प्रथमा प्रतिपत्तिः ।। 'एगे पुण' एके केचन द्वितीयप्रतिपत्तिवादिनः पुनः ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आइंसु माहुः कथयन्ति तदेवाह-'ता' तावत् 'अडूढाइज्जाइं अर्द्धत्तीयानि सार्द्धदिसंख्यकानि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy