SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ चन्द्रविका शतिप्रकाटीका प्रा० १-५ सू० १० सूर्यस्य द्वीपसमुद्रावगाहनिरुपणम् ६७ सर्वबाधमण्डलविषयेऽपि वाच्यम् । 'नवरं' नवरं केवलं, विशेषस्त्वयम् यदत्र 'अवड्डुं लवण समुद' अपार्द्ध लवणसमुद्रम् इति वाच्यम् तथाहि - यदा सूर्यः सर्व बाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु |पार्द्धं लवणसमुद्रमवगाह्य चारं चरतीति । तथा - ' तया णं राईदियं तदेव' तदा स्खल रात्रिदिवं तथैव रात्रिदिवसप्रमाणं तथैव प्रथमप्रतिपत्तिस्पष्टीकरणे सूर्यस्य सर्वबाह्यमण्डलसंचरणसमये यथा कथितं तथैवात्रापि वाच्यम् । यथा-यदा सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्यापार्द्धलवणसमुद्रं वाऽवगाह्य चारं चरति तदा उत्तमकाष्ठा प्राप्ता उत्कर्षिका अष्टादशमुहूर्त्ता रात्रिर्भवति, तथा जघन्यःः द्वादशमुहूर्ती दिवसो भवतीति । संपूर्ण आलापकप्रकारस्तु स्वयमूहनीयः । इति चतुर्थप्रतिपति स्पष्टीकरणम् ॥४॥ अथ पश्चमप्रतिपत्तिस्पष्टीकरणमाह- 'तत्थ जे ते' इत्यादि 'तत्थ' तत्र पञ्चसु प्रतिपत्तिषु 'जे ते' ये ते पञ्चमाः परतीर्थिकाः 'एवमाहंसु' एवमाहु- एवं वक्ष्यमाणप्रकारेण कथयन्ति'ता' तावत् 'णो' नो नैव 'किंचि' किञ्चित् किञ्चिन्मात्रमपि 'दीवं वा समुहं वा' द्वीपं वा समुद्र वा 'ओगाहित्ता' अवगाह्य 'सूरिए' सूर्यः 'चारं चरइ' चारं चरति ते पञ्चमाः परतीर्थिकाः 'एवं' वक्ष्यमाणाशयेन 'आहंसु' आहुः कथयन्ति । तदेव प्रदर्शयति- 'ता' तावत् 'जया पं' यदा खलु 'सूरिए' सूर्यः 'सव्वमंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'णो' नो नैव 'किंचि' किञ्चित् किञ्चिन्मात्रमपि 'जंबुद्दीवं दीवं' जम्बूहीपं द्वीपम् ' ओगाहित्ता' अवगाह्य 'सूरिए' सूर्यः 'चारं चरइ' चारं चरति 'तया णं' तदा खलु 'उत्तमकट्टपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षवान् 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः सकलसूर्य संवत्सर दिवसमानप्रमाणादन्तिमगुरुप्रमाणयुक्तः 'अट्ठारहुते दिवसे भवइ' अष्टादशमुहूत्त दिवसो भवति, 'तहेव' तथैव पूर्ववदेव रात्रिरपि विज्ञेया तथा च ' जहणिया दुबालसमुहुत्ता' राई भवइ' इति पाठ संयोज्य, जबन्यिका सर्वलध्वी सकलसूर्यसंवत्सररात्रिमानप्रमाणादन्तिम लघुप्रमाणयुक्ता द्वादशमुहूर्त्ता रात्रिर्भवतीति । एवं पूर्वोक्तप्रकारेणैव 'सव्वबाहिरे मंडले' सर्वबाह्ये मण्डले भावना कर्त्तव्या 'नवरं' केवलं विशेष एतावानेव यत् सूर्यः 'णो' नो नैव 'किंचि' किञ्चित् किञ्चिन्मात्रमपि लवणसमुद्द लवणसमुद्रम् 'ओगाहित्ता' अवगाह्य 'चारं चरई' चारं चरति । अयं भावः - पञ्चमास्तीर्थान्तरीया एवं कथयन्ति यत्-सूर्यः सर्वाभ्यन्तरमण्डलोपसंक्रमणकालेऽपि न किञ्चिदपि जम्बूद्वीपमवगाहते किं पुनः शेषमण्डलपरिभ्रमणकाले । एवं सर्व बाह्य मण्डलोपसंक्रमणकालेऽपि सूर्यो लवणसमुद्रमपि न किञ्चिदवगाहते किं पुनः शेषमण्डलपरिभ्रमणकाले । तर्हि कथं चारं चरति : इत्याशङ्कायां शृणु द्वीपसमुद्रयोरपान्तराल एव सकलेष्वपि मण्डलेषु चारं चरतीति । 'राई दियं तहेत्र' रात्रिन्दिवं तथैव रात्रिदिवसप्रमाणं पूर्वोक्तवदेव, तथा च-सूर्यो यदा सर्व
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy