SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ चन्द्र प्रशतिसूत्रे अन्तिमं त्र्यशीत्यधिकशततमं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'लवणसमुद्द' लवणसमुद्रम् ' एगं' इत्यादि - त्रयस्त्रिंशदधिकैकशतोत्तर क सहस्रं (११३३) योजनपरिमितं 'ओगाहित्ता' अवगाह्य 'चारं चरई' चारं चरति 'तया णं' तदा खलु 'उत्तमकट्टपत्ता' उत्तमकाष्ठाप्राप्ता परमप्रकर्षप्राप्ता 'उक्कोसिया' उत्कर्षिका सर्वोकृष्टा 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्त्ता रात्रिर्भवति, तथा ' जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूर्त्ता दिवसो भवति । इति प्रथमप्रतिपतिस्पष्टीकरणम् ॥१॥ ६६ " अथ द्वितीयप्रतिपत्तिस्पष्टीकरणमतिदेशेनाह - ' एवं ' इत्यादि ' एवं चोत्तीसं जोयणसयं' एवं चतुस्त्रिद् योजनशतं चतुस्त्रिंशदधिकमेकं शतम् । एवम् प्रथमप्रतिपत्तिस्पष्टीकरणवदेव द्वितीयप्रतिपत्तिस्पष्टीकरणं सर्वं पठनीयं, विशेषस्त्वयम् तत्र - प्रथमप्रतिपत्तौ त्रयस्त्रिंशदधिकैकशतोत्तरेकसहस्रयोजनपरिमितं जम्बूद्वीपं सर्वाभ्यतरमण्डलोपसंक्रमणसमये, एतावदेव सर्व बाह्य मण्डलोपसंक्रमणसमये लवणसमुद्रमवगाह्य सूर्पस्य चारं चरणमुक्तम् अत्र द्वितीयप्रतिपत्तौ तु चतुस्त्रिशदधिकैकशतोत्तरैक सहस्रयोजन परिमितं (१९३४) जम्बूद्वीपं लवणसमुद्र चावगाह्य सूर्यस्य चारं चरणं परिभावनीयम् । इति द्वितीयप्रतिपत्तिस्पष्टीकरणम् २, अथ तृतीयप्रतिपत्तिस्पष्टीकरण मप्यतिदेशेनाह - ' पणत्तीसे वि' इत्यादि । ' पणती से वि' पश्चत्रिंशत्यपि - पञ्चत्रिंशदधिकैकशतोत्तरैकसहस्रयोजनपरिमितजम्बूद्वीपलवण समुद्रावगाहनविषयेऽपि सर्वं सूत्रम् ' एवं चेव' एवमेव प्रथमप्रतिपत्तिस्पष्टीकरणसूत्रवदेव 'भाणियव्वं' भणितव्यं कथितव्यम् । द्वयोरपि सूत्रालापकः स्वयमूहनीयः स्पष्टत्वान्नोल्लिखितः । इति तृतीयप्रतिपत्तिस्पष्टीकरणम् ३, अथ चतुर्थी प्रतिपत्तिस्पष्टीकरणमाह- 'तत्थ जे ते' इत्यादि । 'तत्थ' तत्र पञ्चसु प्रतिपत्तिषु 'जे ते' ये ते चतुर्थप्रतिपत्तिवादिनोऽन्यतीर्थिकाः 'एवमाहंसु' एवम् अनेन वक्ष्यमाणेन प्रकारेण आहुः कथयन्ति 'ता' तावत् 'अवड्ढँ' अपार्द्धम् अपगर्द्धम्' अर्द्धमात्रं "दीवं वा समुद्दे वा' द्वीपं वा समुद्रं वा .' ओगाहित्ता' अवगाह्य 'सूरिए' सूर्यः 'चारं चरइ' चारं चरति, एवं कथयन्ति 'ते' ते चतुर्था स्तीर्थान्तरीयाः' एवं ' एवम् अनेन वक्ष्यमाणेन आशयेन 'आहंसु' आहुः कथयन्ति, तथाहि - 'जया णं' यदा खल 'सूरिए' सूर्यः 'सव्वन्भंतरं मंडल' सर्वाभ्यन्तरं मण्डलम् 'उवसंक मित्ता चारं चरइ' उपसंक्रम्य चारं चरति ‘तया णं' तदा खलु 'अवड्ढ' अपार्द्धम् अपगतार्द्धम् । अर्द्धमात्रं ' 'जंबूद्दीवं दीवं' जम्बूद्वीपं दीपं मध्यजम्बूद्वीपम् 'ओगाहित्ता चारं चरह' अवगाह्य चारं चरति 'तया णं' तदा खलु उत्तमकट्टपत्ते' उत्तमकाष्ठाप्राप्तः 'उक्कोसए' उत्कर्षकः 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादशमुत्तों दिवसो भवति, तथा 'जहण्णिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिर्भवति, ' एवं सव्वबाहिरे वि' एवं अनेनैव प्रकारेण सर्वबाझेऽपि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy