________________
चन्द्राप्तिप्रकाशिका टीका० प्रा०२० सू ५
अष्टाशोतिग्रहनामानि ७१३ एषा गृहीऽतापिसती, स्तब्धाय गारवित मानि-प्रत्यनीकाय । अबहुश्रुताय न देया, तद्विपरीताय भवेद्देया ॥२॥ श्रद्धा धृत्युत्थानोत्साहकर्म बल वीर्यपुरुषकारैः । यः शिक्षितोऽपि सन् अभाजने परिकथयेत् ॥३॥ स प्रवचनकुलगणसंघबाह्यो ज्ञानविनयपरिहोनः । अर्हत्स्थवीरगणधरमर्यादा किल भवति व्यतिक्रान्तः ॥४॥ तस्मात् धृत्युत्थानोत्साह कर्मबलवीर्य शिक्षितं ज्ञानम् । धर्त्तव्यं नियमात् न च अधिनयेषु दातव्यम् ॥५॥ वीरवरस्य भगवतो जरामरणक्लेशदोषरहितस्य । वन्दे विनयप्रणतः, सौख्योत्पादौ सदा पादौ ॥६॥ सू० ६ ॥ विंशतितमं प्राभृतं समाप्तम् ॥२०
चन्द्रप्रज्ञप्तिः समाप्ता। व्याख्या-'इयएस' इति-एवम् उन प्रकारेण 'एस' एषा अनन्तरोदितस्वरूपा 'पागडत्था' प्रकटार्था-जिनवचनतत्त्ववेदिनां स्पष्टार्था 'इणमो' इयं 'चेत्थं प्रकटार्थापि सती 'अभव्वजणहिययदुल्लहा' अभव्यजनहृदयदुर्लभा, अभव्यजनानां कृते हृदयेन-पारमार्थिकाभिप्रायेण दुर्लभा भावार्थमाश्रित्य ज्ञातुमशक्या, अभव्यत्वादेव तेषां जिनवचनस्य सम्यक्तया परिणतेरभावात् । 'उक्कित्तिया' उत्कीर्तिता कथिता, केनेत्याह-'भगवया' भगवता ज्ञानेश्वर्यादिसंपन्नेन श्रीवर्द्धमानस्वामिना 'जोइसरायस्स पण्णत्ती' ज्यौतिषराजस्य चन्द्रस्य प्रज्ञप्तिः ॥१॥ 'एस' इत्यादि, 'एस' एषा ,गहियावि गृहीताऽपि ग्रहणविषयीकृताऽपि थद्धे' स्तब्धाय स्वभावत एव मानप्रकृत्या विनयरहिताय 'थडे' इत्यत्र "व्यत्ययोऽप्यासाम्" इति वचनात् चतुर्थ्यर्थे सप्तमी, एवमग्रेऽपि बोध्यम् । 'गारविय-माणि पडिणीए' गारवितमाणि प्रत्यनीकाय गारवितश्च मानी च प्रत्यनीकश्चेति समाहारे गारवितमानिकप्रत्यनोकम्, तस्मै तत्र गौरवम् ऋद्धिरसशातरूपं गौरवत्रयं, तत् संजातमस्येति गारवितस्तस्मैं, ऋद्धयादि मदोपेतो हि अचिन्त्य चिन्तामणिकल्पमपोदं चन्द्रप्रज्ञप्तिसूत्र माचार्यादिकं च तद्वेत्तारमवज्ञया पश्यति, अवज्ञाच दुरन्तनरकादिप्रपातहेतुरतस्तस्मै दाननिषेधस्तदुपकारायैव जायते । तथा मानिने जात्यादि मदोपता: प्रत्यनीकाय-दूरभव्यत्वेन अभव्यत्वेन वा सिद्धान्तवचनानादरकारिणे । पूर्वोक्का भावनाऽत्रापि मानिप्रत्यनीकविषयेऽपि भावनोया । तथा 'अबहुस्सुए' अबहुश्रुताय अवगादास्तोकशास्त्राय, सहि जिनवचनेषु असम्यग्भावितत्वात् शब्दार्थपर्यालोचनायामसमर्थत्वाच्च यथार्थतया कथ्यमानमपि न सम्यक्तया रुचि विषयी करोति अतएव पूर्वोक्तेभ्यः 'ण देया' न देया न शिक्षयितव्या । तर्हि कस्मै देया ? इत्याह-'तविवरीए' तद्विपरीताय पूर्वोक्तदोषवर्जिताय 'भवे देया' देया भवेत् दातव्या भवेत् । अत्र भवेदिति क्रियापदस्य सामर्थ्य