SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ ७१० चन्द्रप्राप्तिसूत्रे जन्यं शातरूपम् आह्लादरूपं सौख्यं 'पच्चणुब्भवमाणे विहरइ' प्रत्यनुभवन् विहरति तिष्ठति ? एवं भगवता पृष्टो गौतमः प्राह-'ओरालं समणाउसो' हे श्रमण आयुष्मन् ? उदारम्-अत्यद्भुतं शातसौख्यं प्रत्यनुभवन् स विहरति । भगवान् एतद् दृष्टान्तेन व्यन्तरादीनां कामभोग सुखोपमाप्रदर्शनपूर्वकं चन्द्रसूर्यदेवानां कामभोगसुखानि प्रदर्शयति-'ता तस्स णं' इत्यादि 'ता' तावत् 'एत्तो' एतेभ्यः 'तस्स णं पुरिसस्स' तस्यानन्तरोदितस्य खलु पुरुषप्य सम्बन्धिन्यः 'कामभोगेहिंतो' कामभोगेभ्यः 'अणंतगुणविसिट्टतराए चेव' अनन्तगुणविशिष्टतरा एव अनन्तगुणतयाऽत्यन्त विशिष्टा एव 'वाणमंतराणं देवाणं कामभोगा' तानव्यन्तराणां देव नां कामभोगाः । एवं वानव्यन्तरदेवानां कामभोगेभ्यः असुरेन्द्रवर्जितानां भवनवासिदेवानां कमभोगा अनन्तगुणविशिष्टतराः । असुरेन्द्रवर्जितभवनवासिदेवानां कामभोगेभ्योऽसुरकुमा रा. णामिन्द्रभूतानां देवानां कामभोगा अनन्तगुणविशिष्टतराः । इन्द्रभूतानामसुर कुमाराणां देब नां कामभोगेभ्यः ग्रहगणनक्षत्रतारारूपाणां कामभोगाः अनन्त गुणविशिष्टतरा भवन्ति । 'गहगणणक्खत्ततारारूवाणं' ग्रहगणनक्षत्रतारारूपाणां कामभोगेभ्यः 'अणंत गुणविसिट्टतराए चेव' अनन्तगुणविशिष्टा: 'चंदिमसूरियाणं देवाणं कामभोगा' चन्द्रसूर्याणां देवानां कामभोगाः भवन्ति । उपसंहारमाह-'ता एरिसएणं' इत्यादि 'ता' तावत् 'एरिसएणं' एतादृशान् खलु 'कामभोगे' कामभोगान् 'चंदिमसूरिया' चन्द्रसूर्याः 'जोइसिंदा जोइसरायाणो' ज्यौतिषेन्द्राः ज्यौतिषराजाः 'पच्चणुब्भवमाणा' प्रत्यनुभवन्तः 'विहरंति' तिष्ठन्तीति सूत्राथैः । सू०४ ।। साम्प्रतं पूर्वं यदष्टाशोतिम्रहा उक्तास्तान् नामग्राह मुपदर्शयन्नाह—'तत्थ खलु इमे' इत्यादि । मूलम् तत्थ खल इमे अट्ठासीई महग्गहा पण्णना तं जहा इंगालए १, वियालए २, लोहियंके ३, सणिच्छरे ४, आहुणिए ५, पाहुणिए ६, कणो ७, कर्णए ८, कणकणए ९, कणवियाणए १०, कणगसंताणे ११, सोमे १२, सहिए १३, अस्सासणे १४, कज्जोवए १५, कब्बरए १६, अयकरए १७, दुंदुभए १८, संखे १९, संखणाभे २०, संखबण्णाभे २१, कंसे २२, कंसणाभे २३, कंसवण्णाभे २४, णीले २५, णीलोभासे २६, रुप्पी २७, रुप्पोभासे २८, भासे २९, भासरासी ३०, तिले ३१, तिलपुप्फवण्णे ३२, दगे ३३, दगबण्णे ३४, काले ३५, बंधे ३६, इंदग्गी ३७, धूमकेऊ ३८, हरी ३९, पिंगलए ४०, बुहे ४१, सुक्के ४२, बहप्फई ४३, राहू ४४, अगत्थी ४५,, माणवए ४६, कामफासे ४७, धुरए ४८, पमुहे ४९, वियडे ५०, विसंधिकप्पे ५१, पयल्ले ५२, जडियालए ५३, अरुणे ५४, अग्गि-लए ५५, काले ५६, महाकाले ५७, सोत्थिए ५८, सोवत्थिए ५९, बद्धमाणगे ६०, पलंबे ६१, णिच्चालोए ६२, णिच्चुज्जोए ६३, सयंपभे ६४, ओभासे ६.५,, सेयंकरे ६६, खेमंकरे ६१,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy