SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका० प्रा०२० सू. २ रोहुवतव्यता ६९९ पत्ती मिथ्यारूपे, तन्निराकरणाथै भगवान् स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि । 'वयं पुण' वयं तु एवं वयामो' एवं-वक्ष्यमाणप्रकारेण वदामः-कथयामः । तदेव श्रीवीतराग भगवन्स्वमतं प्रदर्श्यते 'ता राहू णं' इत्यादि, 'ता' तावत् 'राहू णं' राहुः खलु न प्रथमप्रतिपत्तिवादिप्रदर्शित स्वरूपो देवः, न च द्वितीयप्रतिपत्तिवादिप्रदर्शितं कृष्णपुद्गलमात्रम् किन्तु 'देवे' स देवोऽस्ति वक्ष्यमाणस्वरूपः, तत्स्वरूपमाह-'महिइढिए' इत्यादि, 'महिइढिए' महर्द्धिकः 'जाव महाणुभावे' इति महाद्युतिकः महायशाः महाबलः, महासौख्यः महानुभावश्व, अर्थः पूर्वमेव गतः पुनश्चः-'वरवत्थधरे' इत्यादि, वरवस्त्रधरः, वरमाल्यधरः, वराभरणधारी, अर्थः पूर्ववदेव राहुरेतादृशो देवो वर्तते । अस्य नामान्याह--'राहुस्सणं' इत्यादि, 'राहुस्स णं देवस्स' राहोः खलु देवस्य राहुदेवस्य 'णव णामधेज्जा' नव नामधेयामि प्रज्ञप्तानि, तद्यथा 'सिंघाडए' इत्यादि, शृङ्गाटकः १, जटिलकः २, खरकः ३, क्षतकः ४, दर्दुरः ५, मकरः ६, मत्स्यः ७, कच्छपः ८, कृष्णसर्पः ९, इति । अस्य विमानानां बर्णमाह-'ता राहुरसणं' इत्यादि, 'ता' तावत् 'राहुस्स णं देवस्स' राहु देवस्य खल्लु विमानानि पञ्च भवन्ति, तानि पृथक् पृथग् वर्णयुक्तानि सन्ति, तदेवाह-'विमाणा पंचवण्ण' पञ्च विमानानि पञ्च वर्णानि प्रज्ञप्तानि तद्यथा-'किण्हा' इत्यादि, कृष्णानि १, नीलानि २, लोहितानि ३, हारिद्राणि ४, शुक्लानि ५। विमानानां कालादिवर्णा किं प्रकारका' भवन्तीति प्रदर्शयति 'अत्थिं कालाए' इत्यादि, कालकं राहुविमानम् 'खंजणवण्णाभे' खञ्जनवर्णाभम्, खञ्जनं-दीपमल्लिकामलः, शकटाक्षमलश्च, तत्सदृशं कालवणं विमानम् १, नीलं राहुविमानम् 'अलाउयवण्णाभं अलाबु -आर्द्र तुम्बं तत्सदृशवर्णयुक्तम् २, 'लोहितं' राहुविमानं 'मंजिट्ठावण्णाभ मंजिष्ठावर्णाभं मंजिष्ठा-औषधिविशेषः तद्वद्रक्तवर्णयुक्तम् ३, हारिद्र पीतवणे राहुविमान "हरिदावण्णा हरिद्रावर्णाभं हरिद्रावर्णवत् पोतवर्णम् ४, शुक्लं राहुविमानं 'भासरासिवण्णामे मस्मराशिवर्णाभं रक्षा पुञ्जवत् श्वेतवर्णयुक्तम् ५। चन्द्रसूर्ययोः राहुकृतावरण तन्मोचनविषयक-दिग्विभागान् प्रदर्शति-'ता जया णं' इत्यादि, 'ता' तावत् 'जया णं' यदा खलु राहुदेवे" राहुदेवः 'आगच्छमाणेवा' कुतश्चित्स्थानादागच्छन् वा 'गच्छमाणे वा कापि स्थाने गच्छन् वा, 'विकुम्वेमाणेवा' स्वेच्छया तां तां विकुर्वणां कुर्वन् वा 'परियारेमाणे वा' । परिचारण बुद्धया इतस्ततो गच्छन् वा चन्द्रस्य वा' सूर्यस्य वा 'लेस' लेश्यां विमानगतधवलिमारूपाम 'पुरथिमेणं आवरित्ता' पौरस्त्येन पूर्वदिग्भागेन अग्रभागेनेत्यर्थः आवृत्य 'पच्चथिमेणं' पाश्चात्येन पश्चिमदिग्भागेन पश्चाद्भागेनेत्यर्थः 'वीईवयई' व्यतिव्रजति-व्यतिक्रामति 'तया णं तदा तस्मिन् समये खलु 'पुरस्थिमेणं' पौरस्त्येन-पूर्वभागेन चन्द्रो वा सूर्यों का स्वात्मा-' नम् 'उवदंसेइ' उपदर्शयति चन्द्रः सूर्योवा प्रकटो भवतीति भावः 'पच्चत्थिमेणं राह पाश्चात्येन. पश्चिमभागेन राहु रुपलब्धो भवति, अयं भावः-तस्मिन् समये-मोक्षकाले चन्द्रः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy