SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिसूत्रे व्याख्या—'ता कहते' इति 'ता' तावत् 'कह' कथं केन प्रकारेण 'ते' त्वया 'अणुभावे' अनुभावः चन्द्रसूर्याणां स्वरूपविशेषः 'आहिए' आख्यातः कथितः ? ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! इति गौतमेन पृष्टे भगवानाह-'तत्थ खलु' इत्यादि, 'तत्थ णं' तत्र चन्द्रसूर्यानुभावविषये खलु 'इमाओ' इमे-वक्ष्यमाणे 'दो पडिवत्तीओ' द्वे प्रति पत्ती :पण्णत्ताओ' प्रज्ञप्ते, 'तं जहा' तद्यथा ते द्वे यथा- 'तत्थ' तत्र द्वयोर्मध्ये 'एगे' एके प्रथमप्रतिपत्तिवादिनः 'एवं' अनेन वक्ष्यमाणप्रकारेण 'आईसु' आहुः कथयन्ति । किं कथयन्ति ? इत्याह-'ता चंदिमसूरियाणं' इत्यादि, 'ता' तावत् चंदिमसूरियाणं' चन्द्र सूर्याः चन्द्रमसः सूर्याश्च खलु 'णो जीवा' नो जीवाः जोवरूपा न, किन्तु 'अजीवा' अजीवाः जीववर्जिताः सन्ति, तथा 'णो घणा' नो घनाः निविडप्रदेशोपचया न, किन्तु 'झुसिरा' शुषिराः वलयवद् अन्तः प्रदेशरहिताः सन्ति, तथा 'णो बादरबोदिधरा' नो बादरबोन्दिधराः, स्थूलशरीरधारकाः प्रधानसजीवसुव्यक्तावयवशरीरोपेता न, किन्तु 'कलेवरा' कलेवराः प्राण रहित केवलशरीररूपाः, तथा 'नस्थि णं तेसिं' नास्ति खलु तेषां चन्द्रसूर्याणाम् 'उहाणे इवा' उत्थानमिति वा, उत्थानम्-ऊर्वीभवनरूपम् 'इति' उपदर्शने 'वा' समुच्चये 'वि' विकल्पे वा, 'कम्मे इ वा' कर्मेति वा कमें-उत्क्षेपणावक्षेपणरूपं कर्मापि तेषां नास्ति तथा 'बलेइवा' बलमिति वा बलं शरीरसमुद्भवप्राणरूपं तदपि तेषां नास्ति तथा 'बीरिए इवा' वीर्य मितिवा, वीर्यम्-आन्तरोत्साहरूपं, तदपि तेषां न । तथा 'पुरिसक्कारपरक्कमे इवा' पुरुषकारपराक्रममिति वा, तत्र पुरुषकारः पुरुषत्वसमुद्भूतगौरवरूपः , पराक्रमः साधितस्वाभिमतप्रयोजनरूपः स एव, एतौ द्वावपि तेषां नस्तः, अत एव ते न काञ्चन क्रियामपि कुर्वन्तीति प्रदर्शयति 'ते णो' इत्यादि, ते चन्द्रसूर्याः ‘णो विज्जु लवंति' नो विद्युत प्रवर्तयन्ति कुर्वन्ति, 'वृतुवर्तने' इत्यस्य प्राकृते लवादेशसंभवात् प्रवर्तयन्तीति रूपम् । 'नो असणि लवंति' नो अशनि प्रवर्तयन्ति, अशनिमिति विशिष्ट प्रकारा अतिविकटगर्जन सहिता विद्युदेव, ‘नो थणियं लवंति' नो स्तनितं गर्जनं प्रवर्तयन्ति । तर्हि किमित्याह'अहेय' इत्यादि, 'अहेय' अधश्च तेषां चन्द्रसूर्याणां 'बायरे बाउकाए' बादरः स्थूलो वायुकायः 'संमुच्छइ' संमूर्छते तथाविध भावाद् एवं समुद्भवति, 'अहेय णं बायरे बाउकाए' अधश्च खलु स बादरो वायुकायः 'समुच्छित्ता' संमूर्य संमूछितो भूत्वा 'विज्जु पि लवंति' इत्यादि, विद्युतमशनि स्तनितं च प्रवर्तयन्तीति उपसंहारमाह-'एगे पुण' इत्यादि, ‘एगे' एके पूर्वोक्ताः प्रथमप्रतिपत्तिवादिनः 'एवं' एवम् अनेन पूर्वोक्तप्रकारेण 'आह'सु' आहुः कथयन्तीति प्रश्नमा प्रतिपत्तिः ।१। अथ द्वितीयामाह-'एगे पुण'इत्यादि, 'एगे' एके द्वितीयप्रतिपत्तिवादिनः 'एवं' एवम् वक्ष्यमाणप्रकारेण 'आई मुं' आहुः कथयन्ति । किमित्याह-'ता चंदि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy