________________
चन्द्रप्रक्षप्तिसूत्रे 'अद्ध कविठ्ठागारा उदयत्थमाणम्मि कहं न दीसंति ? ससिसूराण विमाणा, तिरियक्खेत्ता ट्ठियाणंच ॥१॥ उत्ताणद्धकविट्ठागारे पीढं तदुवरि च पासाओ ।
वट्टालेखेण तओ समवट्ट दूर भावाओ ॥२॥, छाया-अर्द्धकपित्थाकाराणि उदयास्तमने कथं न दृश्यन्ते ?
शशिसूराणां विमानानि, तिर्यक् क्षेत्रस्थितानां च ॥१॥ उत्ताना कपित्थाकारं पीठं तदुपरि च प्रासादः
वृत्तालेखेन ततः समवृत्तं दूर भावात् ॥२॥ इति तत् चन्द्रविमानं च किं प्रकारकमिति तद् विशिनष्टि-'सव्व फालियामए' इत्यादि, 'सव्व फालियामए' सर्वस्फटिकमयं सर्वात्मना स्फटिकाभिधमणिस्वरूपम् । 'विजयवेजयंती पडागा छत्ताइ छत्तकलिए' वातोद्भूतविजयवैजयन्ती पताका छत्रातिच्छत्रकलितम् तत्र वातोद्भूता वायुना कम्पिता विजयवैजयन्ती पताका विजयसूचिका वैजयन्त्यभि धाना या पताका, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिकाः कथ्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताकाः ता एव विजयवर्जिता वैजयन्त्यः पताका उच्यन्ते, तथा छत्रातिछात्राणि-उपर्युपरिस्थितछत्राणि, ततः विजयवैजयन्तीभिः, पताकाभिः, छत्रातिच्छत्रैश्च कलितं युक्तं तत्तथा, 'तुगे' तुङ्गम् उच्चम्, अत एव 'गगणतलमणुलिहंतसिहरे' गगन तलमनु लि वच्छि'वरम्-गगनतलम् अनुलिखत् अभिलङ्घयत् शिखरम् उपरिभागः यस्य तत्तादृशम् 'जालंतररयण' जालान्तररत्नम्-जालकानि भवनभित्तिषु छिद्रसमूहरूपाणि लोके प्रसिद्धानि, तदन्तरेषु तेषां मध्य मध्य भागेषु रत्नानि विशिष्टशोभार्थ सन्ति यत्र तत् सूत्रे प्रथमैकवचनलोप आर्षत्वात् तथा 'पंजरमिलियव्व' पञ्जरमिलितमिव पञ्जरा दुन्मीलितमिव चिरकालाद् बाहिष्कृतमिव नूतनत्वात्, यथाहि किमपि वस्तु संपुटक निवेशि तं धूल्यादिना असंसृष्टत्वेन नूतनवदेव तिष्ठति, तद् वस्तु यदि संपुटकाबहि निष्का स्यते तदा नूतनमिव प्रतिभासते, तथैव तद्विमानं नूतनम् अत्यन्ताविनष्टच्छविकत्वात् तथैव शोभते इति भावः, 'मणिकणगथूभियागे, वियसियसयपत्त पुंडरीयतिलयरयणद्धचंदचित्ते' मणिकनकस्तूपिकाकं विकसितशतपत्रपुण्डरीकतिलकरत्नाद्रचन्द्रचित्र मिति तत्र 'मणि कनकस्तूपिकाकं' इति पृथक् पदम् मणिजटितकनकमयशिखरम्, विकसितानि प्रम्लितानि यानि शतपत्राणि, पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि, तिलाश्च भित्यादिषु पुण्ड्राणि, रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्रमिति । 'अंतोबहिं सण्हे' अन्तर्बहिः श्लक्षणम्चिक्कणम् 'तवणिज्ज वालुया पत्थडे' तपनीयवालुका प्रस्तटम्-तपनीयं-सुवर्ण तन्मयी या वालुका-सिकता, तस्याः प्रस्तटः प्रतरः तल भागो यस्य तत्तथा, 'सुहफासे सुख