SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिस्त्र .. मूलम्-एवं जहेव जीवाभिगमे तहेव णेयव्वं-सव्वभितरिल्लं चारं, संठाणं, फ्माणं, वहंति, सीहगई, इड्ढी तारंतरं, अग्गमहिसीओ, ठिई, अप्पा बहुयं जाव दाराओ संखेज्ज गुणा ॥सू०॥५॥ छाया--यथैव जीवाभिगमे तथैव शातव्यम्-सर्वाभ्यन्तरकश्चारः, संस्थानम्, प्रमाणम्, वहंति, शीघ्रगतिः, ऋद्धिः, तारान्तरम्, अग्रमहिष्यः, स्थितिः, अल्पबहुत्वम् यावत् ताराः संख्येयगुणाः ॥ सू०-५॥ ... व्याख्या-'जहेव जीवाभिगमे' इति, 'जहेव' यथैव येन प्रकारेण 'जीवाभिगमे जीवाभिगमसूत्रे कथितं 'तहेव' तथैव तेनैव प्रकारेण तत्रोक्तानुसारेण 'णेयव्वं' ज्ञातव्यम् अवगन्तव्यं पठितव्यमित्यर्थः । किं किं 'ज्ञातव्यमित्याह-सव्वभितरए' इत्यादि, 'सव्वभितरए चारं' सर्वाभ्यन्तरकश्चारः-नक्षत्राणां सर्वाभ्यन्तरचारप्रभृतिका वक्तव्यता वाच्या। तथा 'संठाणे' संस्थानम् चन्द्रादि विमानानां संस्थानम्-आकृाते रूपं वक्तव्यम् । तदनन्तरं प्रमाणं चन्द्रादि विमानानामेव आयामादि प्रमाणं प्रतिपादयितव्यम् । तदनन्तरं 'वहंति' इति यावन्तः सिंहाद्या कृतयो देवा यं विमानं वहन्ति तद्विषया वक्तव्यता वाच्या । ततः 'सीहगई' शोघ्रगतिरिति कः कस्मात् शीघ्रगतिरिति वाच्यम् । तत्पश्चात् 'इड्ढी' ऋद्धिश्चन्द्रादीनां देवानां वक्तव्या । तदनन्तरं 'तारंतरं' तारान्तरम् ताराणां जघन्यत उत्कृष्टतश्चान्तरं कियत्कियत्परिमितमिति प्रतिवाच्यम् । तत्पश्चात् 'अग्गम हिसीओ' अग्रमहिष्यः चन्द्रादीना मग्रमहिष्यो वक्तव्याः । ततः 'ठिई' स्थितिस्तेषामेव चन्द्रादीनां वाच्या । तदनन्तरम् 'अप्पाबहुयं' अल्पबहुत्वं वक्तव्यम् तत् कियत्पर्यन्त मित्याह-'जाव' इत्यादि, 'जाव' यावत् "तारा संखेज्जगुणा" पूर्वोक्त परिमाणात् ताराः संख्येय गुणा; इति पर्यन्तं सर्वमत्र वक्तव्यं यावत् अष्टादशतमप्राभृतपरिसमाप्तिमिति भावः ॥सू०५॥ तदेवं पूर्व जीवाभिगमस्यातिदेशः प्रोक्तः, साम्प्रतं तदतिदेशप्रदर्शितानि सूत्राणि साक्षात् प्रदर्शयन् प्रथमे सर्वाभ्यन्तरादि चारसूत्रमाह-'ताजंबुद्दीवेणं' इत्यादि, मूलम् –ता जंबुद्दीवेणं दीवे भंते कयरे णक्खत्ता सव्वभंतरिल्लं चारं चरंति ? कयरे णक्खत्ता सव्वबाहिरिल्लं चारं चरति ? कयरे णस्वत्ता सव्वुवरिल्लं चारं चरंति ? कयरे णक्खत्ता हिडिल्लं चारं चरति ? ता अभीई णक्खत्ते सव्वभितरिल्लं चारं चरइ, मूले णक्खत्ते सव्व बाहिरिल्लं चारं चरइ साई णक्खत्ते सव्वुबरिल्लं चारं चरइ भरणी णक्खत्ते सव्य हेडिल्लं चारं चरइ । सू० ॥६॥ __ छाया--तावत् जम्बू द्रोपे खलु द्वीपे भदन्त ! कतमत् नक्षत्रं सर्वाभ्यन्तरकं चारं चरति ? कतमत् नक्षत्रं सर्वबाह्यकं चार चरति ? कतमत् नक्षत्रं सर्वोपरितनं चार घरति ? कतमत् नक्षत्रं सर्वाधस्तनं चारं चरति १ । अभिजिन्नक्षत्रं सर्वाभ्यत्तरं चार वरति, मूलं नक्षत्र सर्वबाह्यकं चार चरति. स्वातिनक्षत्रं सर्वोपरितनं चार चरति, भरणोनक्षत्र सर्वाधिस्तनं चार चरति ॥ सू० ६॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy