SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रक्षप्तिसूत्रे ज्योतिश्चक्रं चारं चरति, इत्येवं भूमिभागान्नवशतयोजनपर्यन्तक्षेत्रे परिपूर्ण ज्योतिश्चक्रं परिभ्रमति । ततः सर्वं ज्योतिश्चक्रं दशोत्तर शतयोजनप्रमाणकं बाहल्येन जातम् नवत्यधिकसप्तशत योजनत आरभ्य नवशतयोजनपर्यन्तं दशोत्तरशतयोजनभावात् । एतच्चाने सूत्रे एव प्रदर्शयिष्यते । पुनश्च-'हेटिल्लाओ तारारुवाओ' अधस्तनात् तारारूपात् ज्योतिश्चक्रात् 'उड्ढे' उर्व 'अबाहाए' अबाधया अन्तरेण 'दस जोयणाई' दशयोजनान्येव उपरिगत्वा अत्रान्तरे 'मरियविमाणं चारं चरइ' सूर्यविमानं चारं चरति । तस्मादेवाधनस्तनात् तारारूपात् ज्योतिश्चक्रात् 'उड्ढे अबाहाए' ऊर्ध्वमबाधया ‘णउई जोयणाई' नवति योजनान्येव गत्वा 'चंदविमाणे चारं चरइ' चन्द्रविमानं चारं चरति । एतस्मादेवाधस्तनात्तारारूपात् 'दसोत्तरं जोयणसयं' दशोत्तरं योजनशतं (११०) 'उड्द' ऊर्ध्वम् 'अबाहाए' अबाधया अन्तरं कृत्वा 'उवरिल्ले तारा रूवे' उपरितनं तारा रूपं ज्योतिश्चक्रं 'चारं चरइ' चारं चरति । _____ अथ सूर्यविमानात् प्राह-'ता' तावत् 'रियविमाणाओ' सूर्यविमानात् 'असीइ जोयणाई' अशीति योजनानि (८०) 'उड्ढ अबाहाए ऊर्ध्वमबाधया 'चंदविमाणे चारं चरइ' चन्द्रविमानं चारं चरति । 'जोयणसयं' तस्मादेव सूर्यविमानात् योजनशतम् एकशतसंख्यकयोजनानि गत्वा 'उड्ढ अबाहाए' ऊर्ध्वमबाधया 'उवरिल्ले तारारूवे' उपरितनं तारा रूपंज्योतिश्चक्रं 'चारं चरइ' चारं चरति । अथ चन्द्रविमानात् प्राह-ता चंदविमाणाओ' इत्यादि, 'ता' तावत् चंदविमाणाओ णं' चन्द्रविमानात् खलु 'वीस जोयणाई' विंशतिं योजनानि 'उड्ढ अबाहाए' ऊर्ध्वमबाधया 'उवरिल्ले तारारूवे' उपरितनं सर्वोपरितनं तारारूपं ज्योतिश्चक्रं 'चारं चरइ' चारं चरति । अथोपसंहरति-'एवामेव' इत्यादि, ‘एवामेब' एवमेव उक्तेनैव प्रकारेण 'सपुत्वावरेणं' सपूर्वापरेण पूर्वेण अपरेण च सह पूर्वापरमीलनेनेत्यर्थः 'दसुत्तरजोयणसयबाहल्ले' दशोत्तर योजनशत बाहल्ये दशाधिक शत संख्यकयोजनपरिमिते बाहल्ये विस्तारे, तथाहि-सर्वाधस्तनात्तारारूपात् ज्योतिश्चक्रात् ऊर्ध्वं दशभिर्योजनैरूवं गत्वा सूर्यविमानम् , ततोऽग्रे अशीतियोजनैरूवं गत्वा चन्द्रविमानम् , ततोऽग्रे विंशत्या योजनैरूर्व गत्वा सर्वोपरितनं तारा रूपं ज्योतिश्चक्रम्-(१०८०=२०+११०) इति सर्वसंमेलनेन ज्योतिश्चक्रचार विषयस्य भवति दशोत्तरं शतं योजनानां बाहल्यम् , तस्मिन् दशोत्तरयोजनशतबाहल्ये, कीदृशे तस्मिन् ? इत्याह-'तिरियमसंखेज्जे तिर्यगसंख्येये तिर्यक्त्वमाश्रित्य असंख्येय कोटी कोटो योजनपरिमिते 'जोइसविसए' ज्योतिर्विषये ज्योतिश्चक्रविषयभूते क्षेत्रे 'जोइसं' ज्यौतिषं मनुष्यक्षेत्रविषयं ज्योतिश्चक्रं 'चारं चरइ' चोरं चरति मनुष्य क्षेत्राबहि ज्योतिषिकाणां पुनः स्थिरत्वम् । 'आहियं' आख्यातम् , 'तिवएज्जा' इति वदेत् प्रतिपादयेत् स्वशिष्येभ्य इति ॥सू० १॥ अथ तारारूपविमानाधिष्टातृणां चन्द्रसूर्यापेक्षया द्युतिविभवादिकमधिकृत्याणुत्व तुल्यत्वमाह-'ता अस्थिणं.' इत्यादि ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy