SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ चन्द्रशशिप्रकाशिका टीका० प्रा.१७ सू. १ चन्द्रसूर्याणां च्यवनोपपात निरूपणम् ६२७ अनयैव रीत्या उक्तालापक रूपया ' जहेव हेट्ठा' यथैव अधस्तात् षष्टे प्राभृते ओजः संस्थिति प्रकरणे चिन्त्यमाणे पञ्चविंशति प्रतिपत्तयः अनुसमयमित्यारभ्य, अनुसागरोपमशतसहस्त्रम्' इति पर्यन्तं चतुर्विंशति प्रतिपत्तयस्तत्र प्रोक्ताः 'तहेव' तथैव तेनैव रूपेण अत्र च्यवनो पपातविषयेऽपि वक्तव्या । कियत्पर्यन्तमित्याह - 'जाव' यावत् पश्चविंशतितमा प्रतिपत्तिरायाति सावत् वक्तव्याः । पञ्चविंशतितमा प्रतिपत्ति सूत्रकारः स्वयमेवाह - 'ता' एगे पुण' इत्यादि, 'ता' तावत् 'एगे पुण' एके पश्चविंशतितम प्रतिपत्तिवादिनः पुनः ' एवं ' एवम् वक्ष्यमाण प्रकारेण 'आहंस' आहुः कथयन्ति - 'ता' तावत् 'अणुओसप्पिणी उस्सप्पिणीमेव' अन्ववसर्पिण्युत्सर्पिणीं 'चंदिमसूरिया चन्द्रसूर्याः 'अण्णे' चयंति अन्ये च्यवन्ते 'अण्णे उववर्ज्जति' अन्ये उत्पद्यन्ते उपसंहारमाह - 'एगे' एवम् पूर्वोक्ता अन्तिमपञ्चविंशतितमप्रतिपत्तिवादिनः ' एवं ' एवम् सर्वप्रदर्शितप्रकारेण 'आहंसु' आहुः कथयन्तीति पञ्चविंशतितमा प्रतिपत्तिः ॥ २५ ॥ अत्र प्रथमा द्वितीया पञ्चविंशतितमा च प्रतिपत्तिः सूत्रे एव प्रदर्शिता मध्यमा तृतीया प्रतिपत्तित आरभ्य चतुविंशति प्रतिपत्तिपर्यन्तं द्वाविंशतिः २२ प्रतिपत्तयो यावच्छन्द गाह्या षष्ठ प्राभृतस्थितौजः संस्थिति प्रकरणगताश्च संक्षेपेण प्रदर्श्यन्ते, तथाहि - तृतीया प्रति पत्तिवादिनः 'अणुराईदियमेव' इति ३ । चतुर्थाः 'अणुपक्खमेव इति ४ । पञ्चमाः 'अणुमा - समेव' ५। ' षष्ठा 'अणुउउमेव' इति' सप्तमा 'अणुअयणमेव' इति ७ । अष्टमाः 'अणुसंवच्छरमेव' इति ८ । नवमा: 'अणुजुगमेव' इति ९ । दशमा: 'अणुवास सयमेव' इति १० । एकादशाः 'अणुवाससहस्समेव ' इति ११ । द्वादशा: 'अणुवाससयसहस्समेवः इति १२ । त्रयोदशाः ‘अणुपुव्वमेव' इति १३ । चतुर्दशा : 'अणुपुव्वयमेव ' इति १४ । पञ्चदशाः 'अणुपुव्वसहस्तमेव ' इति १५ । षोडशाः 'अणुपुव्वसय सहस्समेव ' इति १६ । सप्तदशाः 'अणुपलिओममेव ' इति १७ । अष्टादशा: 'अणुपलि ओवमसयमेव' इति १८ एकोनविंशाः 'अणुपलिओवमसहस्समेव' इति १९ । विंशतितमाः 'अणुपलि ओवमसयसहस्समेव ' इति २०| एकविंशतितमाः ‘अणुसागरोवममेव ' इति २१ । द्वाविंशतितमाः 'अणुसागरोवमसयमेव' इति २२ । त्रयोविंशतितमाः 'अणुसागरोवमसहस्तमेव' इति २३ । चतुर्विंशति तमाः 'अणु साग रोवम सय सहस्तमेवय' इति २४ एतास्तृतोयप्रतिपत्तित आरभ्य चतुर्विंशतितम प्रतिपत्तिपर्यन्ता द्वाविंशति प्रतिपतयो यावच्छन्द प्राह्या अत्रावसेयाः । आसां सर्वासामालापकप्रकारः स्वयमूहनीयइति । इत्येवं प्रोक्ता अन्यतीर्थिकमतरूपाः पञ्चविंशतिः प्रतिपत्तयः सर्वा अपि मिथ्या रूपा एव ततो भगवान् स्वमतं प्रदर्शयति- 'वयं पुण' इत्यादि, 'वयं पुण' वयं पुनः वयं तु 'एवं वक्ष्यमाणप्रकारेण 'वयामो' वदाम कथयामः 'ता' तावत् ' चंदिमसूरिया णं देवा' चन्द्रः सूर्या खलु देवाः महिइढिया महर्द्धिका विमानपरिवारादि संपन्नाः, 'महाजुइया'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy