________________
-६०४
चन्द्रप्रक्षप्तिस्त्रे विवक्षितगतिप्राप्तो भवति-प्रतिमुहूर्त चन्द्रगतिमपेक्ष्य यदा सूर्यगतिश्चिन्त्यते इति भावः तथा 'से णं' स खलु सूर्य 'गइमायाए' गतिमात्रया एक मुहूर्तगतिपरिमाणेन 'केवइय' कियत्कं कियतो भागान् 'विसेसेई' विशेषयति ? अयं भावः-एकेन मुहूर्तेन चन्द्राक्रान्तेभ्यो भागेभ्यः कियतोऽधिकान् भागान् सूर्य आक्रामतीति प्रश्नः । भगवानाह- बावट्ठिभागे विसेसेइ द्वाषष्टिभागान् विशेषयति, कथमित्याह-चन्द्र एकेन मुहूर्तेन अष्टषष्टयधिकानि सप्तदश भागशतानि (१७६८) गच्छति, सूर्यश्च त्रिंशदधिकानि अष्टदशशतानि (१८३०) गच्छति ततो भवति चन्द्रात् सूर्यस्य द्वाषष्टिभागप्रमितो गतिविषयो विशेष इति ।
___अथ चन्द्रमपेक्ष्य नक्षत्रगतिविषयं सूत्रमाह 'ता जया गं' इत्यादि 'ता' तावत् 'जया णं' यदा खलु 'चंदं गइसमावण्णं' चन्द्रं गति समापन्नमपेक्ष्य 'नक्खत्ते' नक्षत्रं 'गइसमावण्णे भवइ' गतिसमापन्नं भवति प्रतिमुहूत्तै चन्द्रगतिमपेक्ष्य यदा नक्षत्रगतिर्विचार्यते तदा 'सेणं' तत् खलु नक्षत्रं 'गइमायाए' गतिमात्रया गतिप्रमाणेन 'केवइयं विसेसेइ' कियत्कं कियतो भागान् विशेषयति चन्द्रगतिपरिमाणान् नक्षत्रगतिः कियती विशेषाधिका भवतीतिभावः मगवानाह-'ता' तावत् 'सत्तर्टि भागे विसेसेइ' सप्तषष्टिभागान् विशेषयति-चन्द्राक्रन्तगतिभागपरिमाणात् नक्षत्रगतिभागपरिमाणं सप्तषष्टिभागप्रमितमधिकं भवतोति भावः । तथाहि-नक्षत्रं यद् एकेन मुहूर्तेन पञ्च त्रिंशदधिकानि अष्टादशभागशतानि (१८३५) गच्छति, चन्द्ररतु अष्टषष्टयधिकानि सप्तदशभागशतान्येव (१७६८) गच्छतीति, ततः संपचते चन्द्रनक्षत्रयोः सप्तषष्टिभागकृतो विशेष इति ।
अथ सूर्यमपेक्ष्य नक्षत्रगतिपरिमाणं चिन्त्यते-'ता जया णं' इत्यादि, 'ता' तावत् 'जया णं' यदा खलु 'सूरियं गइसमावणं' सूर्य गतिसमापन्नमपेक्ष्य 'णक्खत्ते गइ समाण्णे मवई' नक्षत्रं गतिसमापन्नं भवति ‘से णं' ततः खलु नक्षत्रं 'गइमायाए' गतिमात्रया गति परिमाणेन 'केवइयं' कियत्कं कियतो भागान् 'विसेसेइ' विशेषयति सूर्यगतिभागानपेक्ष्य नक्षत्रगतिभागाः कियन्तोऽधिका भवन्तीति भावः ? भगवानाह-'ता' पंचभागे विसेसेइ तावत् पञ्चभागान् विशेषयति सूर्याक्रान्तगतिभागेभ्यो नक्षत्राकान्तगतिभागाः पञ्च अधिका भवन्तीति भावः । कथमित्याह सूर्य एकेन मुहूर्तेन त्रिंशदधिकानि अष्टादशभागशतानि (१८३०) गच्छति, नक्षत्रं च पञ्चत्रिंशदधिकानि अष्टादशभागशतानि (१८३५) गच्छतीति भवति तयोः परस्परं पञ्चभागात्मको विशेष इति । __ अथ चन्द्रेण सहाभिजिन्नक्षत्रस्य योगमाह-'ता जया णं' इत्यादि, 'ता' तावत् 'जया णं' यदा खल 'चंदं गइसमावणं' चन्द्रं गतिसमापन्नमपेक्ष्य 'अभिई णक्खत्ते' अभिजिन्नक्षत्रं 'गइसमावण्णे' गतिसमापन्नं भवति तदा 'पुरथिमाए भागाए' पौरस्त्याद् भागात्, प्रथमतोऽभिजिन्नक्षत्रं चन्द्रं 'समासाएइ' समासादयति, 'समासाइत्ता' समासा च णव