SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १३ सू. ३ मण्डलेषु चन्द्रार्द्धमासचारनिरूपणम् ५८१ भागाः (१५- ) तत आगतम्-चन्द्रः पञ्चदश मण्डानि परिपूर्णानि चरित्वा षोडश मण्डले १२. त्रिंशतं त्रिंशत्यधिकशतभागान् आक्रम्य चारं चरति तत उक्तम्-षोडशमण्डलचारीति षोडशे मण्डले चारं चरन् चन्द्रः 'तया' तदा षोडशमण्डलचारसमये 'अवराई खल' अपरे अन्ये खलु 'दुवे अढगाई द्वे अष्टके युगगतचन्द्रार्धमास चतुर्विंशत्याधिकशत सत्कभागाष्टकप्रमाणे 'जाइंचंदे ये द्वे चन्द्रः 'केणाइ असामण्णगाई' केनापि सूर्येण चन्द्रेण वा असामान्यके अनाचीर्णपूर्वं तत्र 'सयमेव' स्वयमेव 'पविसित्ता' प्रविश्य 'चारं चरइ' चारं चरति । तदेव पृच्छति 'कयराई' इत्यादि, 'कयराई' कतरे के खलु 'दुवे अट्टगाई' द्वे अष्टके 'जाई चंदे' ये चन्द्रः 'केणाइ असामण्णगाइ केनापि असामान्यके अनाचीर्णपूर्वे तत्र चन्द्रः 'सयमेव' स्वयमेव 'पवि सित्ता' प्रविश्य २ 'चारं चरइ' चारं चरति ? तदेव भगवान् दर्शयति-'इमाइं खलु' इत्यादि 'इमाई' इमे वक्ष्यमाणे 'ते दुवे अट्ठगाई' ते द्वे अष्टके जाइं चंदे ये चन्द्रः 'केणइअसामण्णगाई केनापि असामान्यके अनाचीर्णे तत्र 'पविसित्ता' प्रविश्य २, 'चारं चरई' चारं चरति, 'तं जहा' तद्यथा-'निक्खममाणे चेव' निष्क्रामन्नेव सर्वाभ्यन्तरमण्डलाद्वहिनिस्सरन्नेव 'अमावासंतेण' अमावास्यान्ते, 'पविसमाणे चेव पुण्णमासिं तेणं' प्रविशन् सर्वबाह्यमण्डलात् सर्वाभ्यन्तरमण्डलं गच्छन् पौर्णमास्यन्ते, अयं भावः सर्वाभ्यन्तरमण्डलाद्वहिनिस्सरन् अमावास्याश्चरमभागे एकमष्टकं केनाप्यनाचीण चन्द्रः प्रविश्य चारं चरति ? सर्वबाह्यमण्डलात्सर्वाभ्यन्तरमण्डलं प्रविशन्नेव पूर्णिमायाश्चरमभागे द्वितीयमष्टकं प्रविश्य चन्द्रश्चारं चरतीति । उपसंहरति-'इमाई' इत्यादि 'इमाई' इमे अनुपदं प्रदर्शिते खलु 'दुवे अट्ठगे' द्वे अष्टकेस्त 'जाइं चंदे ये द्वे अष्टके चन्द्रः 'केणइ असामण्णगाई' केनापि असामान्यके 'सयमेव' स्वयमेव 'पविसित्ता' प्रविश्य २, 'चारं चरइ' चारं चरतीति । अत्रायं विवेकः अत्र वस्तुतो द्वौ चन्द्रौ एकेन चान्द्रेणार्द्ध मासेन चतुर्दश मण्डलानि, पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विशत्यधिकशतभागान् स्व स्वगत्या भ्रमणेन पूयतः किन्तु लोकरूढ्या व्यक्तिभेदमनादृत्य केवलं जातिमेवाश्रित्य चन्द्रश्चतुर्दश मण्डलानि पञ्चदशस्य च मडलस्य द्वात्रिंशतं चतुर्विशत्यधिकशतभागान् चरतीत्युक्तम् । साम्प्रतमेकश्चन्द्र एकस्मिन्नयने कति अर्द्धमण्डलानि दक्षिणभागे कति चोत्तरभागे भ्रमणेन प्रयतीति भगवान् प्रतिपादयितुमाह-'ता पढमायणगए चंदे' इत्यादि, 'ता' तावत् 'पढमायणगए चंदे' प्रथमायनगतः प्रथमायनस्थितः चन्द्रः 'दाहिणाए भागाए' दक्षिणस्माद् भागात् 'पविसमाणे' प्रविशन् सर्वाभ्यन्तरमण्डले प्रवेशं कुर्वन्निति 'सत्तअद्धमंडलाई' सप्त अर्द्धमण्डलानि भवन्ति 'जाई' यानि मण्डलानि 'चंदे' चन्द्रः 'दाहिणाए भागाए' दक्षिणस्माद् भागात् अभ्यन्तरं मण्डलं 'पविसमाणे' प्रविशन् आक्रम्य 'चारं चरइ' चारं चरति । अत्र पुनः पृच्छति 'कयराई' इत्यादि 'केयराई
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy