SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिसूत्रे शतसत्त्वैकत्रिंशद्भागप्रमाणं (३१) भवति एक च चतुर्विंशत्यधिकं शतभागं मण्डलस्य प्रमाणं भवति चतुर्भागात्किञ्चिदधिकचरणात् सर्व संख्यया द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुविंशत्यधिकशतभागान् चरतीति सिद्धयति । कथमेतदिति त्रैराशिकबलात्, तथाहि-- एकस्मिन् युगे चन्द्रः अष्ट षष्ट्यधिकानि सप्तदश मण्डलशतानि (१७६८) चरति । युगे च--- परिपूर्णाश्चन्द्रमासा द्वाषष्टिः (६२) ते द्विगुणिताः चन्द्रार्धमासा पूर्वरूपाश्चतुर्विंशत्यधिकशतसंख्यका (१२४) भवन्ति ततो यदि चतुर्विंशत्यधिकेन पर्वशतेन - अष्टषष्ट्यधिकानि सप्तदश मण्डलशतानि लभ्यन्ते तदा एकेन पर्वणा किं लभ्यते ? राशित्रयस्थापना - १२४ । १७६ । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनात् जातस्तावानेव (१७६८) अत्राद्येन राशिना (१२४) भागो ि लब्धाश्चतुर्दश, शेषास्तिष्ठन्ति द्वात्रिंशत् चतुर्विंशत्यधिकशतभागाः ( १४ / २२) तत्र छे छेदक १२४ ५८० राश्योः द्वात्रिंशतश्चतुर्विंशत्यधिकशतस्य चेति द्वयोद्विकेनापवर्त्तना क्रियते तत इदमायाति - चतुर्दश मण्डलानि, पञ्चदशस्य मण्डलस्य षोडश द्वाषष्टिभागाः । १४ । १६ । उक्तंचान्यत्रापि — ६२ " चोदस मंडलाई, बिसट्टिभागाय सोलस हविज्जा । मासद्वेण उडुवई एत्तियमित्तं चरइ खित्तं ॥१॥ चतुर्दश च मण्डलानि द्विषष्टि भागाश्च षोडश भवेयुः । मासार्जेन उडुपतिः, एतावन्मात्रं चरति क्षेत्रम् । इतिच्छाया । इत्येवं चान्द्रेण अर्द्धमासेन चन्द्रस्य चारः प्रदर्शितः, सम्प्रति आदित्येन अर्द्धमासेन चन्द्रस्य चार प्रदर्शयति- “ता आइच्चेणं' इत्यादि, 'ता' तावत् आइचचेणं अद्धमासेणं' आदित्येन आदित्यसम्बन्धिना अर्द्धमासेन 'चंदे' चान्द्रः 'कई मंडलाई चरइ' कति, मण्डलानि चरति ? भगवानाह - ' ता सोलस' इत्यादि, 'ता' तावत् 'सोलस मंडलाई चरइ' षोडश मण्लानि चरति परिपूर्णानि पञ्चदश मण्डलानि चरित्वा षोडशे मण्डले चरतीतिभावः 'सोलसमंडलचारी' षोडशमण्डलचारो षोडशमण्डलचरणशीलश्च, अत्र षोडश मण्डलचारी - पञ्चदश मण्डलानि पूर्णानि चरित्वा षोडशे मण्डले समागतस्ततः षोडशं मण्डलं चरन् इत्यर्थः न तु परिपूर्ण षोडश मण्डल चारीति । अयं भावः - एकस्मिन् युगे सूर्यमण्डलानि त्रिंशदधिकानि अष्टादशशतानि (१८३०) भवन्ति, सूर्यार्द्धामासाश्च विंशत्यधिकशतसंख्यकाः (१२०) भवन्ति युगस्य षष्टि सूर्यमासात्मकत्वात् ततस्त्रिंशदधिकाष्टादशशतराशेः (१८३०) विंशत्यधिकशतेन (१२०) भागो ह्रियते लब्धानि पञ्चदश मण्डलानि परिपूर्णानि, तदुपरि त्रिंशच्च विंशत्यधिकशत
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy