________________
चन्द्राप्तिप्रकाशिका टोका प्रा.२ सू.७ छत्रातिच्छत्रयोगे चन्द्रयोगनिरूपणम् ५६९ तमस्य भागस्य विंशतिभागान् कृत्वा तन्मध्यात् 'अटारसभागे' अष्टादशभागान् ‘उवाइणावित्ता' उपादाय आक्रम्य 'तिहिं भगेहिं एकत्रिंशद्भागस्य सप्तविंशतिभागाक्रमणानन्तरं शेषीभूतैत्रिभिरेकत्रिंशद्भागसम्बन्धिभिर्भागैः, 'दोहिं कलाहिं' द्वाभ्यां च कलाभ्याम्, एकस्य एकत्रिंशत्सम्बन्धिनो भागस्य सम्बन्धिभ्यां अष्टाविंशतितमभागस्य विंशतिधा विभक्तस्याष्टादशभागग्रहणा नन्तरं शेषीभूताभ्यां कलारूपाभ्यां भागाभ्यां 'दाहिणपुरथिमिल्लं' दक्षिणपौरस्त्यं दक्षिण पश्चिमस्थितं 'चउब्भागमंडलं' चतुर्भागमण्डलं चतुर्विशतिशतस्य चतुर्थभागरूपं मण्डलम् 'असंपत्ते असंप्राप्तः दक्षिणपश्चिमस्थितं मण्डलचतुर्भागमसंप्राप्यैव, 'एत्थ णं' अत्र अस्मिन् देशे खलु 'चंदे' चन्द्रः 'छत्ताइछत्तं जोयं' छत्रातिच्छत्रं योगं 'जोएई' युनक्ति छत्रातिच्छत्रयोगं करोति । एनमेव प्रदर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा 'उप्पिं चंदो' उपरि चन्द्रः 'मज्झे णक्खत्ते' मध्ये नक्षत्रम् 'हेटा आइच्चे' अध आदित्यः । इत्येवं छत्रातिच्छत्राकारको योगस्तदा भवति । इह मध्ये नक्षत्रमित्युक्तत्वेन नक्षत्रस्य विशेष प्रतिपत्त्यर्थं प्रश्न निर्वचनसूत्रमाह-'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् छत्रातिच्छत्रयोगसमये च खलु 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन किं नामकेन मध्यस्थितेन नक्षत्रेण 'जोएइ' युनक्ति योगं करोति ? भगवानाह- 'चित्ताए' चित्रया चित्रानक्षत्रेण, चित्राया एकतारकत्वादेकवचनम् तत्रापि विशेषमाह'चित्ताए चरमसमए' चित्रायाः चित्रानक्षत्रस्य चरमसमये अन्तिमसमये चित्रानक्षत्रस्योपभोगान्तिम काले चन्द्रश्चित्रानक्षत्रेण सह योगं युनक्तीति भावः । सू० ॥७॥
इति जैनाचार्य जैनधर्मदिवाकर पूज्य श्री घासीलाल व्रति विरचितायां चन्द्रज्ञप्तिप्रकाशिकायां व्याख्यायां द्वादशं प्रामृतं
समाप्तम् ॥ १२ ॥