________________
चन्द्रप्रतिस्त्र निर्लेपतः शुद्धः । तैश्च त्रयोदश भिरश्लेषात आरभ्य उत्तराषाढा पर्यन्तानि नक्षत्राणि शुद्धानि तत आगतम् चन्द्र उत्तराषाढानक्षत्रं परिणमुपभुज्य अभिजिन्नक्षत्रस्य प्रथमसमये उत्तरायणं करोति । एवं सर्वाण्यपि चन्द्रस्योत्तरायणानि वेदितव्यानि । उक्तञ्च
'षण्णरसे उ मुहुत्ते, जोइत्ता उत्तरा आसाढाओ।
एक्कं च अहोरत्तं, पविसइ अब्भंतरे चंदो ॥१॥
छायाः-पञ्चदश तु मुहूर्त्तान् युक्त्वा उत्तराषाढातः । एकं चाहोरात्रं प्रविशति अभ्यन्तरे चन्द्रः ॥ इति ।
एकाहोरात्रस्य त्रिंशन्मुहूर्ताः, तदुपरि पञ्चदशेति जातः पञ्चचत्वारिंशन्मुहूर्ताः, उत्तराषाढा नक्षत्रं पञ्चचत्वारिंशन्मुहूर्तात्मक मिति परिपूर्ण युक्तं भवतीति भावः ।।
साम्प्रतं चन्द्रस्य दक्षिणा आवृत्तयः प्रदर्श्यन्ते, तथाहि यदि चतुस्त्रिंशदधिकेनायनशतेन (१३४) सप्तषष्टिश्चन्द्रस्य पर्याया लभ्यन्ते तत एकेनायनेन किं लभ्यते ? इति त्रैराशिकं क्रियते । राशित्रयस्थापना यथा-१३४।६७।१। अथापि पूर्वोक्तक्रमेण अन्त्येन एककेन मध्यो राशिः सप्तषष्टिरूपो गुण्यते जातस्तावानेव सप्तषष्टिरूपः । तस्यायेन राशिना भागहरणं कर्त्तव्यम् इते च भागे लब्धं पूर्ववदेवार्द्ध मेकपर्यायस्य, तच्चाई पञ्चदशोत्तर नवशतसप्तषष्टिभागरूपं भवति (९१५) अस्मात् अभिजित्सम्बन्धिन एकविंशतिः सप्तषष्टि भागाः शोध्यन्ते, स्थितानि पश्चात् चतुर्नवत्यधिकानि अष्टौ शतानि (८९४) एषां सप्तषष्टया भागे हते लब्धास्त्रयोदश, अवशिष्टाः स्थिताः पश्चात् त्रयोविंशतिः (२३) सप्तपष्टिभागा एकस्याहोरात्रस्य, ततो मुहूर्त भागकरणार्थ त्रयोविंशतिः त्रिंशता गुण्यते, गुणिते, च जायन्ते नवत्यधिकानि षट् शतानि (६९०) एषां सप्तषष्टया भागो हियते लब्धा दश मुहूर्ताः, विंशतिश्च सप्तषष्टि भागाः शेषत्वेन स्थिताः (१०२) तत आगतम्-पुनर्वसु नक्षत्रं परिपूर्णमुपभुज्य चन्द्रः पुष्यस्य दशसु मुहूर्तेषु, एकस्य च मुहर्त्तस्य विंशतौ सप्तषष्टि भागेषु (१०२०) भुक्तेषु तदनन्तरं सर्वाभ्यन्तरमण्डला द्वहिनिष्क्रामति । एवमेव सर्वाण्यपि दक्षिणायनानि विचारणीयानि । उक्तञ्च
"दसय मुहुत्ते सगले मुहुत्तभागे य वोसई चेव ।
पुस्स विसयमभिगओ, वहिया अभिनिक्खमइ चंदो ॥१॥ छाया-दश च मुहूर्तान् सकलान् (परिपूर्णान् ) मुहूर्तभागांश्च विंशतिं चैव ।
पुष्यविषयान् अभिगतः (प्राप्तः) सन् बहिरेभिनिष्क्रमति चन्द्रः ॥ १॥ अर्थस्तु स्पष्ट एव । सू० ६ ॥