________________
चन्द्रज्ञप्तिप्रकाशिकाटीका प्रा.१२ सू.२ पञ्चसंवत्सराणांसंमेलनेरात्रिंदिवपरिमाणम् ५०५ मुहूर्त-य, तथा 'बावट्ठिभागं च सत्तट्टिहा छित्ता' एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वाविभज्य तत्सत्काः ‘दुवालस चुण्णिया भागा' द्वादश चूर्णिका भागाः सप्तषष्टिभागाः (११५० ।- ४१२) 'मुहत्तग्गेणं' मुहूत्र्ताप्रेण प्रक्षेप्य मुहूर्तपरिमाणेन 'आहिए' आख्यातं - कथितम् नो युगमुहूर्त्तादिषु एतावन्मुहूर्त्तादि प्रक्षेपणेन परिपूर्ण युग मुहूर्तपरिमाणेन भवति । तथा हे-नोयुगप्रक्षेप्याणामष्टात्रिंशतो रात्रिन्दिवानां रात्रिन्दिवस्य त्रिंशन्मुहूर्तात्मकत्वात् त्रिंशता गुणने शेषम्हादिप्रक्षेपे च यथोक्तं (११५० ४-) नोयुगम् प्रक्षेप्य मुहूर्त्तादिपरिमाणं भवति ।
एतेषां (११५०+४।१२) नोयुगमुहूर्तादिपरिमाणे (५३७४९ १९३) प्रक्षेपणेन परिपूर्ण
युग-य मुहूर्तस्य परिमाणं नवशताधिकानि चतुष्पञ्चाशत्सहस्राणि (५४९००) मुहूर्तानां भवति । एष मेकस्य रात्रिन्दिवस्य त्रिशन्मुहूर्तात्मकत्वात् त्रिंशता भागहरणे यथोक्तं परिपूर्णयुगरात्रिन्दिवपरिमाणं (१८३०) जायते, इति । तदेव सूत्रकारः प्रदर्शयति- 'ता केवइयं' इत्यादि, 'ता' तात् 'केवइयं' कियत्कं कियत्परिमितं 'जुगे' युगं परिपूर्ण युगं 'राईदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिव परिमाणेन 'आहिए' आख्यातम् ‘ति वएज्जा' इति वदेत् कथयतु हे भरधन् ? । भगवानाह-'ता अट्ठारस' इत्यादि 'ता' तावत् 'अट्ठारसतीसाई राइंदियसयाई' मायादश त्रिंशानि त्रिंशदधिकानि अष्टादश रात्रिन्दिवशतानि (१८३०) 'राइंदियग्गेणं' रात्रिन्दिवाग्रेण परिपूर्ण युगं 'आहिए' आख्यात कथितम् 'ति वएज्जा' इति वदेत् कथयेत् स्व शिष्येभ्य इति ।
अथ परिपूर्णयुगस्य मुहूर्तपरिमाणविषयकं प्रश्ननिर्वचनसूत्रमाह-'ता से णं केवइए' इ यादि, 'ता' तावत् ‘से थे' तत्खलु परिपूर्ण युगं 'केवइए' कियत्कं कियत्परिमितं 'मुहुत्तग्गेणं' मुहूर्ताग्रेण 'आहियं' आख्यातं 'ति वएज्जा' इति वदेत् वदतु हे भगवन ! भगवानाह- 'ता चउप्पणं' इत्यादि, 'ता' तावत् 'चउप्पण्णं मुहुत्तसहस्साई' चतुष्पञ्चाशन्मुहूर्त्तसहस्राणि 'गवयमुहुत्तसयाई' नव च मुहूर्तशतानि (५४९००) 'मुहुत्तग्गेणं' मुहूर्ताग्रेण 'आहिए' आख्यातम् "ति वएज्जा इति वदेत् स्वशिष्येभ्य इति ।
६४