SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू.२ पञ्चसंवत्सराणां संमेलने रात्रिदिवपरिमाणम् ५०३ मुहूर्तास्तेऽभिवतिसंवत्सरसम्बन्धिषु एकविंशतौ मुहूर्तेषु प्रक्षिप्यन्ते, प्रक्षिप्तेषु च एकविंशतिमुहूर्तेषु जातास्त्रिचत्वारिंशन्मुहूर्ताः (४३) अत्र त्रिंशता मुहूत्तरेकोऽहोरात्रो लब्धः स पूर्वोक्तेष्वहोरात्रेषु प्रक्षिप्यते जातानि एकनवत्यधिकानि सप्तदश शतानि (१७९१), शेषाः ये स्थितास्त्रयोदश मुहूर्ताः (१३) येऽपि चाहोरात्रस्य द्वदश द्वाषष्टि भागाः (-) तेऽपि मुहूर्तानयनाथ त्रिंशता गुण्यन्ते, जातानि षष्टयधिकानि त्रीणि शतानि (३६०), एषां द्वाषष्टया भागे हुते लब्धाः पञ्च मुहूर्तास्ते प्रागुक्तेषु त्रयोदशसु मुहूर्तेषु प्रक्षिप्यन्ते, जाता अष्टादश मुहूर्ताः, शेषास्तिष्ठन्ति मुहूत्तस्य पञ्चाशद् द्वाषष्टि भागाः (५०), ततो येऽपि च मुहूर्तस्य षट् पञ्चाशत् सप्त षष्ठि भागाः (-) ते त्रैराशिकगणितेन द्वाषष्टिभागाः क्रियन्ते, तथाहि यदि सप्तषष्टया सप्तपष्टिभागै षिष्टि दृषिष्टि भागा लभ्यन्ते तदा षट् पञ्चाशता सप्तषष्टिभागै षिष्टिभागाः कियन्तो लभ्यन्ते, अत्र राशित्रयस्थापना क्रियते, ६७।६२।५६। अत्रान्तिमराशिना मध्यराशिगुण्यते, जातानि चतुर्विंशच्छतानि द्वासप्तत्यधिकानि (३४७२) एषामादिराशिना सप्तषष्टिरूपेण भागो हियते, लब्धा एक पञ्चाशद् द्वाषष्टिभागाः (५१) तें च पूर्वोक्तेषु शेषी भूतेषु पञ्चाशति द्वाषष्टि भागेषु प्रक्षिप्यन्ते, जातमेकोत्तरं शतम् (१०१), ततस्तन्मध्येsभिवर्द्धितसंवत्सरसम्बन्धिन उपरितना अष्टादश द्वाषष्टि भागाः प्रक्षिप्यन्ते जातं शतमेक मेकोनविंशत्यधिकम् (११९) द्वाषष्टि भागानाम्, एकस्य च द्वाषष्टिभागस्य पञ्च पञ्चाशत् सप्तषष्टिभागाः (-) पूर्वोक्तेषु एकोनविंशत्यधिकशत (११९) संख्यकेषु द्वाषष्टिभागेषु द्वाषष्टया द्वाष्ष्टिभागैरेको मुहूर्तों लभ्यते स च प्रागुक्तेष्वष्टादशसु मुहर्तेषु प्रक्षिप्यते, जातास्ते एकोनविंशति मुहूर्ताः (१९) शेषास्तिष्टन्ति सप्त पञ्चाशद् द्वाषष्टि भागाः (५७) तत आगतं यथोकं नो युगस्य रात्रिन्दिवपरिमाणम् । रात्रि द्विवामु. ५७५५ । ' १७९१ /१९/६२६७ अथ नोयुगस्य मुहूर्तान् पृच्छति-'ता से णं' इत्यादि, 'ता' तावत् ‘से ' तत् खलु नो युगं 'केवइए' कियत्कं कियत्परिमितं 'मुहुत्तग्गेणं' मुहूर्ताप्रेण 'आहियं' आख्यातम् ? 'ति वएज्जा, इति वदेत् वदतु हे भगवन् ! भगवानाह-'ता तेवण्णं' इत्यादि, 'ता' तावत् 'तेवण्णं मुहृत्तसहस्साई त्रिपञ्चाशद् मुहर्त्तसहस्त्राणि 'सत्त य अउणापन्नाई मुहुत्तसयाई' सप्त च एकोन प चाशानि एकोन पञ्चाशदधिकानि मुहर्तशतानि, 'सत्तावणं बावद्विभागा' सप्तपञ्चाशद् द्वाषष्टि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy