SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४४६ चन्द्रप्रज्ञप्तिसूत्र छित्त्वा द्वात्रिंशत् चर्णिकाभागाः शेषाः । तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वितीयां पौणमासी चन्द्रः केन नक्षत्रेण युनक्ति', तावत् उत्तराप्रोष्ठपदाभ्याम् उत्तराप्रोष्ठपदयोः सप्तविशति मुहूर्ताः, चतुर्दश च द्वाष्टिभागाः मुहर्तस्य, द्वाष्टिभागं च सप्तषष्टिधा छित्त्वा द्वाषष्टि प्रचूणिका भागाः शेषाः, तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति तावत् उत्तराफालगुनीभ्यो, उत्तराफाल्गुन्योः सप्तमुहूर्ताः त्रयस्त्रिशच्च द्वाषष्टि भागा मुहूर्तस्य, द्वाषष्टिभारां च सप्तषष्टिधा छित्त्वा एकत्रिशर्णिका भागाशेषाः । तावत् एतेषां खलु पञ्चानां संवत्सराणां तृतीयां पौर्णमासी चन्द्रः केन नक्षत्रेण युक्ति ? तावत् अश्विनीभिः, अश्विनीनां च एकविंशतिर्मुहूर्ताः, नव च द्वाषष्टिभागा मुहूर्तस्य, द्वापष्टिभार्ग च सप्तष्टिधा छित्त्वा त्रिषष्टिप्रचूर्णिका भागाः शेषाः, तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? तावत् चित्रायाः चित्रायाश्च एको मुहूर्तः, अष्टाविंशतिश्च द्वाष्टिभागा मुहूर्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा त्रिंशत् चूर्णिका भागाः शेषाः तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वादशी पौर्णमासी चन्द्रःकेन नक्षत्रेण युक्ति ? तावत् उत्तरा षाढाभ्यां, उत्तराषाढयो षड् विंशति मुहूर्ताः षड्विंशतिश्च द्वाष्टिभागा मुहूर्त्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा चतुष्पञ्चाशत् चूर्णिकाभागाः शेषाः तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ?, तावत् पुनर्वसुना, पुनर्वसोः षोडश मुहूर्ताः अष्ट च द्वापष्टिभागा मुहूर्तस्य, द्वाष्टिभागं च सप्तषष्टिधा छित्त्वा विंशतिश्चूर्णिका भागाः शेषाः तावत् एतेषां खलु पञ्चानां संवत्सराणां चरमां द्वषष्टिः पौर्णमासी चन्द्रः केन नक्षत्रेण युनक्ति ? उत्तराषाढयो चरमसमये, तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? तावत् पष्येण, पष्यस्य एकोनविंशति मुहर्ता त्रिचत्वारिंशच्च द्वाषष्टिभागा मुहर्तस्य, द्वापष्टिभागं च सप्तषष्टिधा छित्त्वा त्रयस्त्रिंशत् चूर्णिकाभागाः शेषाः ॥८॥ व्याख्या—'ता एएसिणं' इति, 'ता' तावत् 'एएसि णं' एतेषां खलु पूर्वोक्तानां 'पंचण्हं' पञ्चानां 'संवच्छराणं' चन्द्रादिसंवत्सराणां मध्ये 'पढमं पुण्णमासिणिं' प्रथमां पौर्णमासी युगस्यादि भाविनी पौर्णमासी 'चंदे' चन्द्रः उपलक्षणात्सूर्यो वा 'केण णक्खत्तण' केन किंनामकेन नक्षत्रेणसह योगमुपागतः सन् 'जोएइ' युनक्ति-परिसमापयति ? भगवानाह-'ता धणिवाहि' इत्यादि, 'ता' इति तत्र युगे 'धणिवाहि' धनिष्ठाभिः तेषां पञ्चानां संवत्सराणां मध्ये प्रथमं पौर्णमासीं चन्द्रः धनिष्ठाभिः परिसमापयति । धनिष्ठा नक्षत्रस्य पञ्चतारकत्वाद्वहुवचनम् तदेव विशदयति'धनिट्ठाणं' धनिष्ठानां धनिष्ठा नक्षत्रस्येत्यर्थः "तिण्णि मुहुत्ता' त्रयो मुहूर्ताः ‘एगृणवीसं च बावट्ठिभागा मुहुत्तस्स' एकोनविंशतिश्च द्वाषष्टि भागा मुहूर्तस्य, तथा 'बावद्विभागं च' एक द्वाषष्टि भागं च 'सत्तट्टिहा' सप्तषष्टिधा सप्तषष्टिभागैः 'छित्ता' छित्त्वा विभज्य, एकस्य द्वाषष्टिभागस्य सप्तषष्टि विभागान् कृत्वेत्यर्थः तेभ्यः ‘पण्णट्ठी' पञ्चषष्टिः 'चुण्णियाभागा' चूर्णिका भागाः (३ (। ५) शेषा, भवेयुस्तदा चन्द्रः प्रथमां पौर्णमासी समापयतीतिभावः । कथमेत ६२ ६७ दित्याह-पौर्णमासी विषयक चन्द्रनक्षत्रयोगस्य परिज्ञानार्थं कारणं प्रागुक्तमेव, तत्र षट्षष्टि-मुहूर्ताः,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy