________________
चन्द्रप्राप्तिसूत्रे मूलम्-ता एएसि णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे कंसि देससि जोएइ ? । ता जंसि णं देसंसि चंदे चरिमं बावडिं अमावासं जोएइ तओ अमावासट्ठाणाओ मंडलं चउव्वीसेणं सएणं छित्ता बत्तीसे भागे उवाइणावित्ता एत्थ ण चंदे पढमं अमावासं जोएइ । एवं जेणेव अभिलावेणं चंदस्स पुण्णमासिणीओ भणियाओ तेणेव अभिलावेण अमावासाओ भाणियव्याओ तंजहा-बिइया तइया दुवालसमी, एवं खल एएणं उवाएणं ताओ ताओ अमावासाठाणाओ मंडलं चउव्वीसेणं सएणं छित्ता दुत्तीसं भागे उवाइणावित्ता तंसि तंसि देसंसि तं तं अमावासं चंदे जोएइ । ता एएसि णं पंचण्हं संवच्छराणं चरमं बावहिँ अमावासं चंदे चरिमं बावडिं पुण्णमासिणि जोएइ ताओ पुरणमासि णिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छित्ता सोलसभागे उक्कोवइत्ता एत्थ णं से चंदे चरिमं बावहि अमावासं जोएइ ॥ सूत्र ६॥
छाया- तावत् एतेषां खलु पञ्चानां संवत्सराणां प्रथमाम् अमावास्यां चन्द्रः कस्मिस् देशे युनक्ति ? । तावत् यस्मिन् खलु देशे चन्द्रः चरमां द्वाष्टिम् अमावास्यां युनक्ति तस्मात् अमावास्यास्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा द्वात्रिंशतं भागान् उपादाय अत्र खलु स चन्द्रः प्रथमाम् अमावास्यां युनक्ति । एवं येनैव अभिलापेन चन्द्रस्य पौर्णमास्यो भणितास्तेनैव अभिलापेन आमावास्याः भणितव्याः तद्यथा-द्वितीया, तृतीया, द्वादशी । एवं खलु एतेन उपायेन तस्मात् तस्मान् अमावास्या स्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा द्वात्रिंशतं द्वात्रिंशतं भागान् उपादाय तस्मिन् तस्मिन् देशे ता ताम् अमावास्यां चन्द्रः युनक्ति । तावत् एतेषां खलु पञ्चानां संवत्सरानां चरमां द्वाषष्टिम् अमावास्यां चन्द्रः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् खलु देशे चन्द्रः चरमां द्वाषष्टि पौर्णमासी युनक्ति तस्मात् पौर्णमासी स्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा षोडश भागान् अवष्यष्क्य अत्र खलु स चन्द्रः चरमां द्वाषष्टिम् अमावास्यां युनक्ति ॥ सूत्र ६ ॥
व्याख्या ---'ता एएसिणं' इति, 'ता' तत्र युगे ‘एएसिणं' एतेषा मनन्तरोदितानां ‘पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'पढम अमावासं' प्रथमाममावास्यां 'चंदे' चन्द्रः 'कंसि देसंसि' कस्मिन् देशेस्थितः सन् 'जोएई' युनक्ति ? । एवं गौतमेन प्रश्ने कृते भगवानाह 'ता' तावत् 'जसिणं देसंसि' यास्मिन् खलु देशे स्थितः 'चंदे' चन्द्रः 'चरिम' चरमा 'बावर्टि' द्वाषष्टितमां 'अमावासं' अमावास्यां 'जोएइ' युनक्ति परिसमापयति 'ताओ अमावासाठाणाओ' तस्मात् अमावास्यास्थानात् अमावास्यापरिसमाप्तिस्थानात् परतः 'मंडलं' 'चउव्वीसेणं सएणं' चतुर्विशेन शतेन 'छित्ता' छित्त्वा तद्गतान् 'बत्तीसं भागे' द्वात्रिंशतं भागान् 'उबाइणावित्ता' उपादाय 'एत्थ णं' अत्र खलु देशे 'से चंदे' स चन्द्रः 'पढम अमावासं' प्रथमाममावास्यां 'जोएइ' युनक्ति परिसमापयति । अथाग्रेऽतिदेशेनाह-‘एवं' इत्यिादि ‘एव' एवम्-अनेनानुपदमुक्तेन प्रकारेण 'जेणेव' येनैव यादृशेनैव 'अभिलावेणं' अभिलापेन अभिलापक्रमेण 'चंदस्स पुण्णमासिणीओ भणियाओ' चन्द्रस्य पौर्णमास्यो भणिताः 'तेणेव अभिलावण' तेनैव