SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा. १० प्रा० प्रा. २२ सू. २ सीमाविष्कम्भनिरूपणम् ४२७ च षडूभिर्गुण्यते, जातानि त्र्युत्तराणि षट् शतानि (६०३) । अभिजिन्नक्षत्रस्यैकविंशतिः सप्तषष्टिभागा इति सर्वसंकलनया जातानि त्रिंशदुत्तराणि अष्टादशशतानि (१८३० । एतावद्भागपरि - मितमेकमर्द्धग्मण्डलं भवति, एवं द्वितीयमर्द्धमण्डलमपि एतावद्भागपरिमितमेवेति द्वयोस्त्रिंशदधिकाष्टादशशतयोर्मेलने जातानि षष्ट्यधिकानि षट्त्रिंशच्छतानि (३६६०) एकैकस्मिन् अहोरात्रे किल त्रिंशन्मुहर्त्ता भवन्तीति प्रत्येकमेतेषु पष्टयधिकषट्त्रिंशच्छत संख्यकेषु भागेषु (३६६०) त्रिंशद्भागकल्पनायां त्रिंशता गुण्यन्ते जातमष्टानवतिशताधिकमेकं शतसहस्रम् (१०९८०० ) । तत इत्थं मण्डलस्य भागान् परिकल्प्यैव भगवान् प्रतिवचनं ददाति - 'ता एएसिणं' इत्यादि । 'ता' तावत् 'एएसिणं' एतेषां खलु 'छप्पण्णाए णक्खत्ताणं' षट् पञ्चाशतो नक्षत्राणां मध्ये 'अस्थि णक्खता' सन्ति कानिचिन्नक्षत्रानि 'जेसि णं' एषां खलु 'छ सया तीसा' षट्शतानि त्रिंशानि, त्रिंशदधिकाि षट्शतानि (६३०) 'सत्तट्ठिभागतीस इभागाणं' सप्तषष्टिभाग त्रिंशद्भागानां 'सीमाविक्खमो' सीमाविष्कम्भः सीमाविस्तारोऽस्तीति । 'अत्थि णक्खत्ता' सन्ति कानिचिन्नक्षत्राणि येषां खलु 'सहस्सं पंचुत्तरं ' सहस्रं पञ्चोत्तरं पञ्चाधिकमेकं सह. (१००५) 'सत्तद्विभागतीस - भागाणं' सप्तषष्टिभागत्रिंशद्भागानां 'सीमाविक्खंभो' सोमाविष्कम्भः । ' अत्थिणक्खत्ता' सन्ति कानिचिन्नक्षत्राणि 'जेसि णं' येषां खलु 'दो सहस्सा दसुत्तरा' द्वे सहस्रे दशोत्तरे दशाधिकं सहस्रद्वयं (२०१०) सत्तद्विभागती सइ भागाणं' सप्तषष्टिभागत्रिंशद्भागानां 'सीमाविक्खंभो ' सीमाविष्कम्भः । ' अस्थि णक्खत्ता सन्ति कानिचिन्नक्षत्राणि 'जेसि णं' येषां खलु 'तिसहस्सं पंचदसुत्तरं ' त्रिसहस्रं पञ्चदशोत्तरं पञ्चदशाधिकं सहस्रत्रयं ( १०१५ ) ( सत्तद्विभागतीसइभागाणं' सप्तषष्टि भागत्रिंशद्भागानां 'सीमाविक्खंभो' सीमाविष्कम्भः एवं भगवता प्रोते केषां नक्षत्राणां कियत्परिमितः सीमाविष्कम्भः १ इति गौतमः पृच्छति - 'ता एएसि णं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां खलु 'छप्पण्णाए णक्खत्ताणं' षट् पञ्चाशतो नक्षत्राणां मध्ये 'करे णक्खत्ता' कतराणि नक्षत्राणि कानि नक्षत्राणि एतादृशानि 'जेसि णं' येषां खलु नक्षत्राणां 'छ सयातीसा' षट्शतानि त्रिंशानि त्रिंशदधिकानि षट्शतानि सप्तषष्टिभागत्रिंशद्भागानां सीमा विष्कम्भः प्रोक्तः ? ‘तं चेव उच्चारेयव्वं' तदेव उच्चारयितव्यं पूर्वोक्तमेव सर्व प्रश्नरूपेण सूत्र - मत्रवाच्यम् कियत्पर्यन्त मित्याह - 'जाव' इत्यादि. यावत् 'ता एएसि णं' तावत् एतेषां खलु 'छप्पण्णाए णवखत्ताणं' षट्पञ्चाशतो नक्षत्राणां मध्ये 'कयरे णक्खत्ता' कतराणि नक्षत्राणि कानि नक्षत्राणि एतादृशानि सन्ति 'जेसि णं' येषां खलु नक्षत्राणां 'तिसहस्सं पंचदमुत्तरं ' त्रिसह पञ्चदशोत्तरं (३०१५) 'सत्तट्टिभागती सहभागाणं' सप्तषष्टिभागत्रिंशद्भागानां 'सीमावक्खंभो' सीमाविष्कम्भः प्रोक्तः ! एवं गौतमेन पृष्टे भगवान् तत्प्रश्नान् समाधत्ते 'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां खलु 'छप्पण्णाए णक्खत्ताणं' षट्पञ्चा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy