SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोका प्रा. १० प्रा. प्रा. २१ सू.१ नक्षत्रचक्रद्वारनिरूपणम् ४१९ तत्र पञ्चसु प्रतिपत्तिवादिषु मध्ये ‘एगे' एके केचन ‘एवमाहंसु' एवमाहुः एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति । किमाहुरित्याह- 'ता कत्तियाइया' इत्यादि 'ता' तावत् 'कत्तियाइया' कृत्तिकादीनि ‘सत्तनक्खत्ता' सप्तनक्षत्राणि 'पुव्वदारिया' पूर्वद्वाराणि 'पण्णत्ता' प्रज्ञप्तानि । इह येषु नक्षत्रषु पूर्वस्यां दिशि गमनं कुर्वतः प्रायः शुभं भवति तानि पूर्वद्वाराणि नक्षत्राणि कथ्यन्ते । अथवा नक्षत्रचक्रस्य पूर्वभागचारीणि कृत्तिकादीनि सप्तनक्षत्राणि सन्तीति पूर्वद्वाराणि कथ्यन्ते इति । इदं प्रथमप्रतिपत्तिवादिमतम् १ । शेषाश्चत्तस्रः प्रतिपत्तयः सुगमा इति न व्याख्यायते । अयमाशयः-द्वितीयप्रतिपत्तिवादिमते मघादीनि सप्तनक्षत्राणि पूर्वद्वाराणि ।१। तृतीयप्रत्तिपत्तिवादिमते-धनिष्ठादीनि सप्तनक्षाणि पूर्वद्वाराणि ।३। चतुर्थप्रतिपत्तिवादिमते-अश्विन्यादीनि सप्तनक्षत्राणि पूर्वद्वाराणि ।४। पञ्चमप्रतिपत्तिवादिमते भरण्यादीनि सप्तनक्षत्राणि पूर्वद्वाराणि सन्तीति ।५। एवं पञ्चप्रतिपत्तिवादिनां पञ्चमतानि संक्षेपतः प्रोक्तानि, अर्थतेषां प्रत्येकं शेष दक्षिण-पश्चिमोत्तरद्वारविषये भावनां प्रदर्शयति- 'तत्स्थ णं जे ते' इत्यादि 'तत्स्थ णं' तत्र पञ्चसु प्रतिपत्तिवादिषु खलु 'जे ते' ये ते प्रथमाः प्रतिपत्तिवादिनः ‘एवं' एवम् पूर्वोक्त प्रकारेण 'आईसु' आहुः कथयन्ति यत् 'ता' तावत् कृत्तिकादीनि सप्तनक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानि ते 'एवं' एवम् वक्ष्यमाणप्रकारेण सप्तनक्षत्राणि 'आहंसु' आहुः, तान्येव सप्तनक्षत्राणि नामनिर्देशपूर्वकं दर्शयति 'तं जहा' इत्यादि, 'तं जहा' तद्यथा-तानि सप्त यथा-कृत्तिका १, रोहिणी २, मृगशिरः ३, आर्द्रा ४ पुनर्वसुः ५, पुष्यः ६, अश्लेषा ७ । अष्टाविंशतिनक्षत्राणां पूर्व-दक्षिण-पश्चिमोत्तररूपदिक्चतुष्टये प्रत्येकस्मिन् दि शे सप्त सप्तनक्षत्राणि तत्तदिग् द्वारा ण क्रमेण भवन्ति, तथाहि-कृत्तिकात आरभ्याश्लेषा पर्यन्तानि सप्तनक्षत्राणि पूर्वद्वाराणि ७ । तदनेतनानि मघात आरभ्य विशाखा पर्यन्तानि सप्तनक्षत्राणि दक्षिण द्वाराणि १४ । तदनेतनानि-अनुराधात आरभ्य श्रवणपर्यन्तानि सप्तनक्षत्राणि पश्चिमद्वाराणि २१ । तदनेतनानि धनिष्ठात आरभ्य भरणी पर्यन्तानि सप्तनक्षत्राणि उत्तरद्वाराणि सन्ति २८ । एष प्रथम प्रतिपत्तिवादिमतेऽष्टाविंशतिनक्षत्राणां क्रमः।१। एवं द्वितीय प्रतिपत्तौ मघात आरभ्य अश्लेषापर्यन्तान्यष्टाविंशति नक्षत्राणि पर्वादि दिकू चतुष्टये सप्त सप्त विभजनेनावसेयानि। एतद् द्वितीयप्रतिपत्तेः स्पष्टीकरणम् ।२ तृतीयप्रतिपत्तौ धनिष्ठात आरभ्य श्रवणपर्यन्ताष्टाविंशतिनक्षत्राणि प्रत्येकस्मिन् दिशि सप्त सप्त क्रमेण विज्ञेयानि ।३। चतुर्थप्रतिपत्तौ अश्विनीत आरभ्य रेवती पर्यन्ताष्टा विंशतिनक्षत्राणि पूर्वादि प्रत्येकदिशि सप्त सप्त क्रमेण स्थापनीयानि ।४। पञ्चमप्रतिपत्तौ भरणीत आरभ्याश्विनी पर्यन्ताष्टाविंशति नक्षत्राणि पूर्वादि दिक चतुष्टये सप्तसप्त क्रमेण ज्ञातव्यानि ।५। तदेवं पञ्चप्रतिपत्तिस्पष्टीकरणं प्रोक्तम् । अक्षरगमनिका स्वयमूहनीयेति । अथ भगवान् स्वमतं प्रदर्शयति 'वयं पुण' इत्यादि, 'वयं पुण' वयं पुनरिति वयं तु 'एवं' वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः 'ता' तावत् 'अभीइयाइया' अभिजिदादीनि 'सत्तणवत्ता' सप्तनक्षत्राणि 'पुव्वदारिया पण्णत्ता' पूर्वद्वाराणि प्रज्ञप्तानि । शेषं सुगमम् । अयमाशयः-- अत्राभिजित आरभ्य
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy