________________
४१४
चन्द्रप्राप्तिसूत्र 'कडुओ' कटुकः शीतातपरोगादिदोषबहुल्येन परिणामदारुणः 'य' च तथा 'बहउदओ' बहूदकः वृष्टि बहुको भवति 'तं संवच्छरं तं संवत्सरं 'चंदं' चन्द्रं 'आहु' आहुः कथयन्ति । अत्र चन्द्रानुरोधात् मासानां परिसमाप्तिर्भवति, न तु माससदृशनामनक्षत्रानुरोधादिति ॥२॥
अथ कर्मसंवत्सरलक्षणान्याह-'विसमं पवालिणो' इत्यादि, यस्मिन् संवत्सरे 'पबालिणो' प्रवालिनः वनस्पतयः ‘विसम' विषमं विषमकालं कालवैपरीत्येन 'परिणमंति' परिणमन्ति प्रवालाङ्कुरादित्या परिणाम प्राप्नुवन्ति तथा ते एव वृक्षादि वनस्पतयः 'अणु ऊहा' अनृतुषु स्व स्व ऋतु विपरीतकालेऽपि 'पुप्फफलं' पुष्पफलं पुष्पाणि फलानि च 'दिति' ददति प्रयच्छन्ति स्व स्व ऋत्वभावेऽपि वृक्षाः फलन्तीत्यर्थः तथा 'वासं' वर्षं वृष्टिं 'न सम्मवासइ' न सम्यग् वर्षति यथाकालं वृष्टिरपि न भवति 'तं संवच्छरं' तं तादृशं संवत्सरं 'कम्म' काम कर्मसंवत्सरं 'आहु' आहुः कथयन्ति ॥३॥
साम्प्रतं सूर्यसंवत्सरलक्षणान्याह-'पुढविदगाणं' इत्यादि । यस्मिन संवत्सरे 'पुढविदगाणं' पृथिव्युदकानां पृथिव्या उदकानां च, 'च तथा 'पुप्फफलाणं' पुष्पफलानां' पुष्पानां फलानां च 'ईसं' रसम् 'आइच्चे' आदित्यः सूर्यः ददाति पृथिवीं परिमित सरसतापप्रभावान्मधुरादि रसबहुला, उदकं माधुर्यस्वास्थादि गुणयुक्तं पुष्पाणि चम्पकादीनि सुगन्धबहुलानि, फलानि आम्रादीनि अतिशयरसयुक्तानि चादित्यः करोतीति भावः । तथा तत्प्रभावात् 'अप्पेण वि वासेण' अल्पेनापि वर्षेण स्वल्प वृष्टयाऽपि तथाविधसरसजलप्रभावात् 'सस्सं' सस्यं धान्यं 'सम्म' सम्यक् परिपूर्णतया 'निप्फज्जए' निष्पद्यते निष्पन्नं भवति, एतादृशं संवत्सरं आदित्यसंवत्सरं कथयन्ति । ४॥
अभिवतिसंवत्सरलक्षणान्याह-'आइच्चतेयतविया' इत्यादि । यस्मिन्संवत्सरे ‘खणलवदिवसा' क्षणलवदिवसाः तत्र क्षणः कतिपयावलिकारूपः लवः सप्तस्तोकरूपः, तथाहि-असंख्याता. वालीकानामेक आनप्रानः, सप्तानप्राणानामेकः स्तोकः सप्तस्तोकानामेको लवः, तादृशसमय लवरूपो लवः तथा दिवसः अहोरात्रस्त्रिंशन्मुहूर्तात्मकः एते सर्वेऽपि तथा 'उऊ' ऋतवोऽपि षडपि ऋतवः 'आइच्चतेयतविया' आदित्यतेजस्तप्ताः सूर्यातपेन संतप्ताः ‘परिणमंति परिणमन्ते प्रसरिता भवन्ति 'णिण्णथलए' निम्नस्थलान् ‘पूरेइ' पूरयति पांशुना जलेन वा, त संवत्सरं 'अभिवढियं' अभिवर्द्धितं 'जाण' जानीहि ॥५॥
इत्येवं लक्षणसंवत्सरो वर्णितः, साम्प्रतं शनैश्चरसंवत्सरमाह-'ता सणिच्छरेणं इत्यादि 'ता' तावत् 'सणिच्छरसंवच्छरेणं' शनैश्चरसंवत्सरः खलु 'अट्ठावीसइविहे' अष्टाविंशति विधः अष्टाविंशति प्रकारकः ‘पण्णत्त' प्रज्ञप्तः कथितः 'तं जहा' तद्यथा 'अभिई' अभिजित 'सवणे' श्रवणः 'जाव यावत् 'उत्तरासाढा' उत्तराषाढा, अत्र यावत्पदेन धनिष्टात आरभ्य पूर्वाषाढा पर्यन्तानि पञ्चविंशतिनक्षत्रनामानि संग्राह्याणि शनैश्चरमहाग्रहस्याष्टाविंशति नक्षत्रपरिभ्रमणकालमाश्रित्य शनैश्चरसंवत्सरोऽष्टाविंशतिविधः प्रोच्यते, तथाहि-अभिजिदिति