SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ चन्द्र प्रज्ञप्तिसूत्रे आसां भावना चेत्थम्-अथ कोऽपि पृच्छति प्रथमं पर्व कस्मिन् सूर्यनक्षत्रे समाप्तं भवति : अत्र ध्रुवराशि:- त्रयस्त्रिंशन्मुहूर्त्ताः एकस्य मुहूर्त्तस्य द्वौ द्वाषष्टिभागौ, एकस्य च द्वाषष्टि भागस्य चतुस्त्रिंशत् सप्तषष्टि भागौ (३३ ६ ३ २३४)। एष ध्रुवशशिः स्थाप्यते । एषो ध्रुवराशिः प्रथमपर्वविषयक प्रश्नत्वाद् ६२ एकेन गुण्यते, जातस्तावानेव । ३३ ।२।३४ । एतस्मात् पुष्यशोधनकम् - एकोनविंशतिर्मुहूर्त्ताः, एकस्य मुहूर्त्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागाः (१९ ४३ ३३) ६२ ६७ इत्येवं प्रमाणं शोध्यते शोधिते स्थिताः शेषास्त्रयोदशमुहूर्त्ताः एकस्य च मुहूर्त्तस्य एक विंशति द्वषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टि भागः (१३ २१ १ ) । तत ६२६७ आगतम्-अश्लेषानक्षत्रस्यैतावद्भागान् भुक्त्वा सूर्यः प्रथमं पर्व श्रावणमासगतामावास्या रूपं परिसमापयतीति ॥१॥ द्वितीयपर्वविचारणायामपि स पूर्वोक्त एव ध्रुवराशि:- ३३।२।३४ । अत्र द्वितीयपर्वविषयक प्रश्नत्वादेष ध्रुवराशिर्द्वाभ्यां गुण्यते जाताः षट्षष्टिर्मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य पञ्च द्वाषष्टिभागाः, एकस्य च द्व षष्टिभागस्य एकः सप्तपष्टिभागः ६६।५।१। एतस्मात् पुष्यशोधनकं यथोक्तप्रमाणं - १२।४३।३३ । शोध्यते, स्थिताः पश्चात् षट् चत्वारिंशन्मुहूर्त्ताः, त्रयोविंशतिर्द्वाषष्टि भागाः, पञ्चत्रिंशत्सप्तषष्टिभागाः ४६ | २३ | ३५ । एतस्मात् पञ्चदश मुहूर्त्ता अश्लेषा नक्षत्रस्य शोध्यन्ते, स्थिताः पश्चात् एकत्रिंशन्मुहूर्त्ता (३१) एभ्यः त्रिंशन्मुहूर्त्ता मघा नक्षत्रस्य शोध्यन्ते, स्थितः पञ्चादेको मुहूर्त्तः (१) तत आगतम् द्वितीयं पर्व सूर्यः पूर्वफाल्गुनी नक्षत्रस्य एकं मुहूर्त्तम् एकस्य च मुहूर्त्तस्य त्रयोविंशति द्वाषष्टिभागान्, एकस्य च द्वाषष्टि भागस्य पञ्चत्रिंशतं सप्तषष्टि भागान्— (१२३३५) भुक्त्वा परिसमापतीति । २ । ६२ ६७ तृतीय पर्व पृच्छायामपि स एव ध्रुवराशिः ३३ । २ । ३४ त्रिभिर्गुण्यते, जाता नव नवतिर्मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य सप्तद्वाषष्टि भागाः, एकस्य च द्वाषष्टिभागस्य पञ्च त्रिंशत्सप्तषष्टिभागाः (९९७ ३५) । एतस्माद्राशेः पुण्यशोधनकं (१९।४३।३३ ) शोध्यते, स्थिताः पश्चात्-एको ६२६७ नाशीतिर्मुहूर्त्ताः, एकस्य च मुहूर्तस्य षड्विंशति द्वषष्टि भागाः, एकस्य च द्वाषष्टि भागस्य द्वौ सप्त षष्टि भागौ (७९२६ २ ) । ततः पञ्चदश मुहूर्त्ता अश्लेषायाः शोव्याः, स्थिताः पश्चात् चतुषष्टि ६२ ६७ ३९८ र्मुहूर्त्ताः (६४) । अस्माद्राशेः त्रिंशन्मुहूर्त्ता मघायाः शोध्याः स्थिताः पश्चात् चतुस्त्रिंशन्मुहूर्त्ताः (३४), अस्मात् त्रिंशन्मुहूर्त्ताः पूर्वफगुन्या शोध्याः पश्चाच्चत्वारो मुहूर्त्ताः ( ४ ) तत आगतम् - तृतीयं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy