SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ अ-म. ४ ९ ३८० चन्द्रप्राप्तिसूत्रे तु कर्त्तव्यम्, इति वचनात् भूयोऽपि तत्रैकं रूपं प्रक्षिप्यते, जातानि षोडश अयनानि, सप्तषष्टि भागाश्च चतुष्पञ्चाशत् [५४] मण्डलराशौ उद्धरितास्तिष्ठन्ति, ते षष्टिरूपे सप्तषष्टिभागराशौ प्रक्षिप्यन्ते जाताश्चतुर्दशोत्तरशतसंख्यकाः [११४] अस्य सप्तषष्ट्या भागो हियते लब्धमेकं मण्डलम् पश्चात् सप्तचत्वारिंशत् [४७] सप्तषष्टि भागास्तिष्ठन्ति, ततः ‘दो य होति भिन्नमि' द्वे च भवतो भिन्ने [प्रक्षेपणीये] इति वाचनातू मण्डलराशौ द्वे प्रक्षिप्येते जातानि त्रीणि मण्डलानि, चतुर्दशभिश्चात्र गुणितं कृतम् चतुर्दशराशिश्च यद्यपि युग्मरूपस्तथाऽप्यत्र मण्डलराशेरेकमयनमधिकं प्रवेष्टमितेत्रीणि मण्डलानि अभ्यन्तमण्डलादारभ्य द्रष्टव्यानि, तत आयातम् – षोडशेऽयने अभ्यन्तरमण्डलादारभ्य तृतीये मण्डले सप्त चत्वारिंशत्सप्तषष्टिभागेषु व्यतीतेयु, एकस्य च सप्तषष्टिभागस्य द्वयोरेक त्रिंशद्भागयोर्व्यतीतयोः सतोतुर्दर्श पर्व समाप्तिमुपयातीति ।१४। अथ द्वाषष्टितमपर्वेविषये प्राह-अत्र कोऽपि पृच्छति द्वाषष्टितमं पर्व कस्मिन्नयने कस्मिंश्च मण्डले समाप्तं भवतीति । अत्रापि स पूर्वोक्तो ध्रुवराशि:-( १-१ ६७३११ -- ) द्वाषष्टि पर्वविषये पृष्टमिति ध्रुवराशिषिष्टया गुण्यते जातानि द्वाषष्टिरयनानि, द्वाषष्टिरेव मण्डलानि एकेन गुणिते तदेव भवतीति वचनात्, चतुणां सप्तपष्टिभागानां द्वाषष्टया गुणने जाता अष्टचत्वारिंशदधिक द्विशतसंख्यकाः (२४८) सप्तषष्टिभागाः, नवानामेकत्रिंशद्भागानां द्वाषष्टिया गुणने जाता अष्टपञ्चाशदधिक पञ्चशत संख्यका एकत्रिंशद्भागाः (६२-६२.२४८/१९८)। प्रथममष्टपञ्चाशदधिकानां पञ्चशतानामेकत्रिंशद्भा गानां सप्तषष्टि भागानयनार्थमेकत्रिंशता भागो ह्रियते लब्धाः परिपूर्णा अष्टादश सप्तपष्टिभागाः, एते उपरितने अष्टचत्वारिंशदधिकशतद्वयरूपे (२४८) सप्तषष्टिभागराशौ प्रक्षिप्यन्ते जाते षट् षष्टयधिके द्वे शते (२६६) सप्तपष्टिभागानाम् (६२-६२-२६६ ) । उपरि च यानि द्वाषष्टि मण्डलानि सन्ति तेभ्योऽयनस्य मण्डलसत्कत्रयोदशसप्तपष्टिभागयुक्तत्रयोदशमण्डलात्मकत्वेन द्विपञ्चाशता मण्डलैः एकस्य च मण्डलस्य द्विपञ्चशता सतषष्टि भागै(५२-१२) श्चत्वारि अयनानि लब्धानि, तान्ययनराशौ प्रक्षिप्य ते जातानि षट्षष्टिरयनानि (६६) पश्चात्तिष्ठन्ति नवमण्डलानि, एकस्य मण्डलस्य च पञ्चदश सप्तषष्टिभागाः (९-११) । एते पञ्चदश सप्तषष्टिभागाः सप्तषष्टिभागराशौ । (२६६) प्रक्षिप्यन्ते जाते एकाशीत्यधिके द्वे शते (२८१) अस्य राशेः सप्तषष्ट्या भागे हृते लब्धानि चत्वारि मण्डलानि, शेषास्तिष्टन्ति त्रयोदश सप्तषष्टिभागा मण्डलस्य, एते च मण्डलराशौ प्रक्षिप्य ५
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy