SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३५० चन्द्रप्राप्तिसूत्रे भागान् , एकस्य च एकषष्टिभागस्य सत्कमेकसप्तभागं (२३३) यावत् सूर्यमण्डलं बहिर्विनिर्गतं वर्त्तते, तत एतावता परिहीणं परतश्चन्द्रमण्डलान्तरं भवति । तत्र द्वादशसूर्यमार्गा लभ्यन्ते । सर्वान्तिमाद्वा द्वादशाच्च सूर्यमार्गात् परतो द्वयुतरशतै कषष्टिभागः, एकस्य च एक पष्टिभागस्य सत्कैस्त्रिभिः सप्त भागैः (१०२३) एतावरक्षेत्रातिक्रमणानन्तरमित्यर्थः चतुर्दश चन्द्रमण्डलं लभ्यते, तच्च चतुर्दशं चन्द्रमण्डलं सूर्यमण्डलात् एकोनविंशतिमेकषष्टिभागान् , एकस्य च एकषष्टिभागस्य सत्कान् चतुरः सप्तभागान् (--) यावत् अभ्यन्तरं प्रविष्ट विद्यते । तिष्ठन्ति शेषाः षट्त्रिंशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्कास्त्रयः 'सप्तभागाः (३६३ ) इत्येतावत्परिमितं चन्द्रमण्डलं सूर्यमण्डलसम्मिश्रं भवति । तस्माच्चतुर्दशाच्च ६१७ न्द्रमण्डलात्-एकादश एकषष्टिभागान् , एकस्य च एकषष्टिभागस्य चतुरः सप्तभागान्(-- ६१७ यावत् एतत्परिमितमित्यर्थः सूर्यमण्डलं बहिर्विनिर्गतं वर्तते तत एतावता परिमाणेन न्यूनं यथोक्त परिमाणं चन्द्रमण्डलान्तरमायाति तत्र च द्वादश सूर्यमार्गा लभ्यन्ते । पुनश्च द्वादशात्सूर्यमार्गात् परतश्चतुर्दशोत्तरशतसंख्यकैरेकषष्टिभागैः पञ्चदशं चन्द्रमण्डलं लभ्यते । तच्च पञ्चदशं चन्द्रमण्डलं सर्वान्तिमात् सूर्यमण्डलादर्वाक्-अष्टैकषष्टिभागान् (८) यावत् अभ्यन्तरं प्रविष्टं वर्तते । तिष्ठन्ति ये शेषा अष्टचत्वारिंशदेकषष्टिभागास्ते सूर्यमण्डलसम्मिश्रा भवन्तीति । एतानि-एकादशादीनिपञ्चदशपर्यन्तानि पञ्चचन्द्रमण्डलानि सूर्यमण्डलसम्मिश्राणि भवन्ति । एषु च चरमेषु चतुर्थचन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गा भवन्तीति । अथोपसंहियते--चन्द्रस्य पञ्चदशमण्डलानि भवन्ति, तत्र एकादीन पञ्चमपर्यन्तानि पञ्चमण्डलानि आभ्यन्तराणि, तथा-एकादशादीनि पञ्चदशपर्यन्तानि पञ्चमण्डलानि च बाह्यानि कथ्यन्ते, एतानि दशमण्डलानि चन्द्रसूर्ययोः साधारणानीति दशचन्द्रमण्डलानि सूर्यमण्डलसम्मिश्राणि भवन्ति, तथा षष्ठादारभ्य दशमपर्यन्तानि पञ्चमण्डलानि प्रत्येकानीति तानि केवलं चन्द्र एव स्पृशति, न कदाचिदपि सूर्यः, इति एतानि सूर्यमण्डलसंस्पृष्टानि भवन्तीत्येवं सर्व सविस्तरं प्रदर्शितम् । सूर्यमार्गाश्च चतुर्दशस्वेव चन्द्रमण्डलेषु लभ्यन्ते तत्रैवान्तरसद्भावात् न तु सर्वान्तिमे पञ्चदशे चन्द्रमण्डले तदग्रेऽन्तराभावात्, इति-अष्टसु आयेषु चतुर्यु चरमेषु च चतुर्यु अभ्य
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy