SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. ११ चन्द्रसूर्यमण्डलमार्गतदन्तरंच ३४९ - एकादशे चन्द्रमण्डले चतुष्पञ्चाशदेकषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ (५४२) इत्येतावत् सूर्यमण्डलादभ्यन्तरं प्रविष्टम्, एक एकषष्टिभागः, एकस्य च एकषष्टिभागस्य पञ्चसप्तभागा (२८) एतावन्मात्रं सूर्यमण्डलसम्मिश्रम् एकादशाच्चन्द्रमण्डलाद्वहिर्विनि र्गतं सूर्यमण्डलम्, षट्चत्वारिंशदेकषष्टिभागाः, एकस्य च एक षष्टिभागस्य सत्को द्वौ सप्तभागी ( -) तत् एतावता हीनं परतश्चन्द्रमण्डलान्तरमस्तोति द्वादश सूर्यमार्गा लभ्यन्ते । ततः परमेकोनाशीत्या एकषष्टिभागः, एकस्य च एकषष्टिभागस्य सत्काभ्यां द्वाभ्यां सप्तभागाभ्यां द्वादशं चन्द्रमण्डलं लभ्यन्ते । तच्च द्वादशं चन्द्रमण्डलं द्विचत्वारिंशतमेकषष्टिभागान्, एकस्य च एकषष्टिभागस्य सत्कान् पञ्चसप्तभागान् (४२ ) यावत् सूर्यमण्डलादभ्यन्तरं प्रविष्टम् । शेषं च योजनस्य त्रयोदश एकषष्टिभागाः एकस्य च एकषष्टि भागस्य सत्कौ द्वौ सप्तभागी एतवन्मात्रं चन्द्रमण्डलं सूर्यमण्डलसम्मिश्रं वर्तते । तस्माच्च द्वादशाञ्चन्द्रमण्डलात् सूर्यमण्डलं योजनस्य चतुस्त्रिंशतमेकषष्टिभागान् , एकस्य च एकषष्टिभागस्य सत्कान् पञ्चसप्तभागान् (३४) यावत् एतत्परिमितमित्यर्थः बहिर्विनिर्गतं भवति, तत एतावन्मात्रेण न्यूनं परतश्चन्द्रमण्डलान्तरं वर्त्तते, तत्र च द्वादशसूर्यमार्गा लभ्यन्ते तत्र द्वादशाच सूर्यमार्गात् परतो नवतिसंख्यकै रेकषष्टिभागः, एकस्य च एकषष्टिभागस्य सत्कैः षद्भिः सप्तभागैः (१०६ ) एतावपरिमितक्षेत्रमुल्लद्धये त्यर्थः त्रयोदशं चन्द्रमण्डलं वर्त्तते । तच्च त्रयोदशं चन्द्रमण्डलम् एकत्रिंशतमेकषष्टिभागान् , एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागम्-एक सप्तभागसहितकत्रिंशदेकषष्टिभागपरिमितं (२१ - सूर्यमण्डलादभ्यन्तरं प्रविष्टं विद्यते । स्थितास्तस्य शेषाश्चतुविंशतिरेकषष्टि भागाः, एकस्य च एकषष्टिभागस्य सम्बन्धिनः षट् सप्तभागाः (२६) एतावन्मानं चन्द्रमण्डलं सूर्यमण्डलसम्मिश्रं भवति । तस्माच्च त्रयोदशाच्चन्द्रमण्डलात् त्रयोविंशतिमेकषष्टि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy