SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३०६ . चन्द्रप्राप्तिसूत्रे वदतु कथयतु हे भगवान् ! इति गौतमेन पृष्टे भगवानाह-हे गौतम ! पूर्णिमाऽमावास्यानां चन्द्रयोगमाश्रित्य नक्षत्रप्रकरणं व्यवहारनयेन कथयामि तथाहि-'ता' तावत् नक्षत्रं त्रिप्रकारकं भवति कुलनक्षत्रम् ?, उपकुलनक्षत्रम् २, कुलोपकुलनक्षत्रं चेति । तेषु 'जया णं' यदा खलु कुलादिषु धनिष्ठा-श्रवणा-ऽभिजिद्रूपेषु व्यवहारनयेन नक्षत्रेण युक्ता साविट्ठी पुण्णिमा' श्राविष्ठी पूर्णिमा श्रावणमासभाविनी पूर्णिमा भवेत् 'तया णं' तदा खलु 'माही अमावासा' माधी माघमासभाविनी अमावास्यापि व्यवहारतः धनिष्ठा-श्रवणाऽभिजिन्नक्षत्रमध्ये केनाप्येकेन नक्षत्रेण युक्ता 'भवइ' भवति ? 'जया णं' यदा खलु 'माही पुण्णिमा माघमासभाविनी पूर्णिमा मघाऽश्लेषा नक्षत्रयोर्मध्ये येन नक्षत्रेण युक्ता 'भवई' भवति तदा 'साविट्ठी अमावासा' श्राविष्ठी अमावास्यऽपि मघाश्लेषयोर्मध्ये केनाप्येकेन नक्षत्रेण युक्ता 'भवइ' भवति ।२। 'जया णं' यदा खलु 'पोटुवई' प्रोष्ठपदी भाद्रपदमासभाविनी 'पुण्णिमा' पूर्णिमा त्रिषु-उत्तराभाद्रपदपूर्वाभाद्रपदशतभिषगू रूपेषु कुलादिसंज्ञकेषु मध्ये केनाप्येकेन नक्षत्रेण युक्ता भवति 'तया गं' तदा खलु 'फग्गुणी' फग्गुनी फाल्गुनमासभाविनी 'अमावासा' अमावास्यापि एण्वैवमध्ये केनाप्येकेन नक्षत्रेण युक्ता 'भवई' भवति ३ 'जया णं' यदा खलु 'फग्गुणी' फाल्गुनी फाल्गुनमासभाविनी 'पुण्णिमा' पूर्णिमा उत्तराफाल्गुनी पूर्वाफाल्गुनीनक्षत्रयोः कुलादिसंज्ञयोर्मध्ये केनाप्येकेन नक्षत्रेण युक्ता भवति 'तया णं' तदा खलु 'पोवई' प्रोष्ठपदी भाद्रपदमासभाविनी 'अमावासा' अमावास्याऽपि पूर्वोक्तयोर्नक्षत्रयोर्मध्ये केनचिदेकेन नक्ष ण युक्ता ‘भवइ' भवति ४ 'जया णं' यदा खलु 'आसोई' आश्विनी-आश्विनमासभाविनी 'पुण्णिमा' पर्णिमा अश्विनी रेवतीनक्षत्रयोः कुलादिसंज्ञयोर्मध्ये येन केनाप्येकेन नक्षत्रेण युक्ता भवति 'तया णं' तदा खलु 'चेत्ती' चैत्री चैत्रमासभाविनी. 'अमावासा' अमावास्यापि पूर्वोक्तयोर्द्वयोर्मध्ये केनाप्येकेन नक्षत्रेण युक्ता 'अमावासा' अमावस्या भवति ५ । 'जया णं' यदा खलु 'चेत्ती' चैत्री चैत्रमासभाविनी 'पुण्णिमा' पूर्णिमा चित्रा हस्तयोः कुलादिसंज्ञयोर्द्वयोर्नक्षत्रयोर्मध्यात् केनाप्येकेन नक्षत्रेण युक्ता 'भवइ' भवति 'तया णं' तदा खलु 'आसोई' आश्विनी-आश्विनमासभाविनी अमावासा अमावास्याऽपि पूर्वोक्तयाईयोर्नक्षत्रयोर्मध्यात् केनाष्येकेन नक्षत्रेण युक्ता 'भवइ' भवति ६ 'जया गं' यदा खलु 'कत्तिकी'.कात्तिकी कार्तिकमास भाविनी 'पुण्णिमा' पूर्णिमा कृत्तिका भरणी नक्षत्रयोः कुलादिसंज्ञयोयोर्मध्यात् येन केनाप्येकेन नक्षत्रेण युक्ता 'भवइ' भवत 'तया णं तदा खलु 'वेसाही वैशाखी वैशाखमासभाविनी 'अमावासा, अमावास्यापि पूर्वोक्तयोईयोर्नक्षत्रयोर्मध्यात् केनाप्येकेन नक्षत्रेण युक्ता 'भवइ' भवति 'तया णं' तदा खलु 'कत्तिया कार्तिकी कार्तिकमासभाविनी 'अमावासा' अमावास्याऽपि पूर्वोक्तयोयोनक्षत्रयोर्मध्यात् केनाप्येकेन नक्षत्रेण युक्ता 'भवइ' भवति ८ 'जया णं' यदा खलु 'मग्गसिरी'मार्गशीर्षी 'पुण्णिमा'पूर्णिमा मृगशीर्ष-रोहिणीनक्षत्रयोः कुलादिसंज्ञयोर्द्वयोर्मध्यात् येन केनाप्येकेन नक्षत्रग युक्ता 'भवइ' भवति तया णं'तदा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy