________________
६२।६७
४५
19
६राद
२३८
चन्द्रप्रशप्तिसूत्रे एकोनपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु (२९४३६२६) पूर्णतां प्राप्तेषु ३, तथा चतुर्थी मार्गशीर्षीममावास्यां त्रिंशन्मुहूर्तात्मकमनुराधानक्षत्रं चतुर्विशतौ मुहूर्तेषु एकस्य च मुहूर्त्तस्य सप्तविंशता द्वाषष्टिभागेषु च, एकस्य च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टि भागेषु (२४२४१) व्यतोतेषु ४, तथा पञ्चमी मार्गशीर्षीममावास्यां पञ्चचत्वारिंशन्मुहूर्तात्मकं विशाखानक्षत्रं त्रिचत्वारिंशति मुहूर्तेषु एकस्य च मुहूर्तस्य सम्बन्धिनो द्वाषष्टिभागस्य अष्टपञ्चाशति सप्तषष्टिभागेषु च (४३.१७) परिपूर्णेषु परिसमायति ॥५॥
अथ पौषीममावास्यामाह-पोसिं' इत्यादि, 'पोसिं' पौषी पौषमासभाविनीममावास्यां 'दो' द्वे नक्षत्रे 'तं जहा' तद्यथा-'पुव्वासाढाउत्तरासाढा य' पूर्वाषाढा उत्तराषाढा चेति । इदमपिव्यवहारत एव पोक्तं निश्चयतस्तु तृतीयं मूलनक्षत्रमपि पौषीममावास्यां परिसमापयति । तत्र प्रथमां पोषीममावास्यां त्रिंशन्मुहूर्तात्मकं पूर्वाषाढानक्षत्रम्-अष्टाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्त्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु, (२८-०६।१९ गतेषु, तथा द्वितीयां पौषीममावास्यां त्रिंशन्मुहूर्तात्मकं पूर्वाषाढानक्षत्रं द्वयोर्मुहूर्तायोर्गतयोः सतोः एकस्य च मुहूत्तस्य एकोनविंशतौ द्वाषष्ठिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनविंशतौ सप्तषष्टि भागेषु (२ १९१९ ) व्यतीतेषु २, तथा तृतीयामभिवर्धितमासभाविनीममावास्यां पञ्चचत्वारिंशन्मुहूर्तात्मकमुत्तराषाढानक्षत्रम्-एकादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य एकोनषष्टौ द्वाषष्टिभागेषु एकस्य चद्वाषष्टि भागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु (११ १२ परिपूर्णेषु ३, तथा चतुर्थी पौषीममावास्यां त्रिंशन्मुहूर्तात्मकं पूर्वाषाढानक्षत्रं पञ्चद शसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य षट्पञ्चा शति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंश ति सप्तषष्टि भागेषु (१५ १६९० गतेषु तथा पञ्चमी पौषीममावास्यां त्रिंशन्मुहूर्त्तात्मकं मूलनक्षत्रम् एकोनविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चसु द्वाषष्टि भागेषु एकस्य च द्वा षष्टि भागस्य एकोनषष्टौ सप्तषष्टि भागेषु (१९...१० च परिपूर्णेषु समापयति ।।
. अथ माघीममावास्यां प्राह-'माहिं' इत्यादि, "माहि' माधी माधमासभाविनीममावास्यां 'तिण्णि' त्रीणि नक्षत्राणि, 'तं' जहा तद्यथा-अभीई सवणो धणिहोय' अभिजित्, श्रवणः, धनिष्ठा च
द६७