________________
२३४
चन्द्रप्राप्तिसूत्रे
चत्वारिंशद् (४६) द्वाषष्टिभागाः-(४४२६६) एतत् पुनर्वसु प्रभृत्युत्तराषाढापर्यन्तं प्रथमं शोधनकं पूर्वोक्तात् अमावास्या संख्या गुणितध्रुवराशेः (१६५०-१२५२५ एतावत्परिमितात् शोध्यते, शोधिते च स्थितानि पश्चात् मुहूर्तेभ्यः अष्टोत्तराणि द्वादशशतानि (१२०८) मुहूर्तानाम् , ततः पंचविंशत्युत्तरैकशतसंख्यकेभ्यो द्वाषष्टिभागेभ्यः षट्चत्वारिंशद् द्वाषष्टिभागनां शोधने स्थिताः पश्चात् एकोनाशीतिः (७९) द्वाषाष्टिभागाः पञ्चविंशतिः (२५) सप्तषष्टिभागाश्च यथा पूर्वं तथैव स्थिताः, तथाहि स्थापना (१२०८-७०२५) । तत एतस्माद् राशेः एकोनविंशत्यधिकाष्टशतमुहूर्ताः (८१९) एकस्य मुहूर्तस्य चतुर्वि 'शतिषिष्टिभागाः (६३. एकस्य च द्वाषष्टिभागस्य षट् षष्टिः (६८) सप्तषष्टिभागाः (८१९-२४.६६) एतत्परिमित एको नक्षत्रपर्यायः शोध्यते ततः स्थिता पश्चात्-नवाशीत्यधिकत्रिंशतमुहूर्ताः (३८९) एकस्य च मुहूर्तस्य चतुष्पञ्चाशद् (५४) द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य घडविंशतिः (२६) सप्तषष्टिभागाः (३८९-ततः पुनर्नवोत्तरशतत्रयमुहूर्ताः (३०९), एकस्य च मुहूर्तस्य चतुर्विशतिषिष्टिभागाः (२४), एकस्य च द्वाषष्टिभागस्य षट्षष्टिः ६६ सप्तषष्टि भागाः, (३०९-२०६६ एतत्परिमितं करणगाथा सप्तमाष्टमोक्तानाम् अभिजित आरभ्य रोहिणिका पयन्तानां नक्षत्राणां शोधनकं शोध्यते, स्थिताः पश्चात्-अशीतिर्मुहर्ताः (८०) एकस्य च मुहूर्तस्य एकोनत्रिंशद (२९) द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तविंशतिः (२७) सप्तषष्टिभागाः(८०--- तत स्त्रिंशन्मुहर्ता अस्माद्राशेर्मुगशिरसः शोध्यन्ते, स्थिताः पश्चात् पञ्चाशन्मुहूर्ताः (५०) पनरस्माद्राशेः पञ्चदशमुहूर्ता आर्द्रायाः शोध्यन्ते स्थिताः पश्चात् पञ्चत्रिंशत् (३५) मुहूर्ताः । ततः पञ्चचत्वारिंशन्मुहर्तात्मकस्य पुनर्वसु नक्षत्रस्य पञ्चत्रिंशतिमुहूर्तेषु, एकस्य च मुहूर्तस्य एकोनत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तषष्टिभागेषु (३५२०२०) गतेषु तृतीया श्राविष्ठधमावास्या परिसमाप्तिमेति ।३।
२९२७
दश६७