SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१० प्रा. प्रा. ६ सू०१ अमावास्यायोगकारी कुलादिनक्षत्रम् २३३ द्वाषष्टि भागैश्च-१६) पुनर्वसुत आरभ्योत्तराषाढा पर्यन्तानि नक्षत्राणि शोध्यन्ते यथा ८५८-६५-१३ शोध्य संख्या ४४२-४६-० शोधक संख्या स्थितानि शेषाणि षोडशोत्तराणि चत्वारि शतानि, एकस्य ४१६-१९-१३ शोधनफलम् च मुहूर्तस्य एकोनविंशतिषिष्टिभागाः एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागा ( ४१६ ) । तत एतस्माद् राशेः—नवत्यधिकशतत्रय (३९९) संख्यका मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विंशतिषिष्टिभागाः (१३) एकस्य च द्वाषष्टिभागस्य षट् षष्टि सप्तषष्टिभागाः १६) इति (३९९३६/६७ समुदितो राशिरुपरिष्ठराशेः शोध्यते, तथाहि-पूर्व षोडशोत्तर चतुःशत (४१६) राशेः नवनवत्यधिकत्रिशत (३९९) राशिः शोधितः, लब्धाः शेषाः सप्तदश मुहूर्ताः १७), अग्रे उपरितना द्वाषष्टिभागा एकोनविंशतिः (१९) एतेभ्यो न्यूनत्वेन चतुर्विशतिर्न शोध्यते ततः शोधनार्थ सप्तदशमुहूर्तेभ्य एक मुहूर्त निष्कास्यास्य द्वाषष्टिभागाः क्रियन्ते, एते द्वाषष्टिभागाः एकोनविंशतौ द्वाषष्टिभागराशौ क्षिप्यन्ते ततो जाता द्वाषष्टि भागाः एकाशीतिः(८१)शोधन योग्या तत एतस्माद् राशेश्चतुर्विशतिः शोध्यते, स्थिता पश्चात् सप्तपञ्चाशत्(५७), अस्मादेकं रूपं निष्कास्य सप्तषष्टिभागाः क्रियन्ते, एते सप्तषष्टि भागास्त्रयोदशसु सप्तषष्टिभागेषु क्षिप्यन्ते जाता अशीतिः(८०), एभ्यः षट् षष्टि सप्तषष्टिभागाः शोभ्यन्ते, स्थिताः पश्चात् चतुर्दश (१४) इत्यागताः पुष्यनक्षत्रस्यातिक्रान्ता भागा-षोडश मुहूर्ताः, एकस्य च मुहूर्तस्य षट्पञ्चाशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तषष्टि भागाः (१६-) त्रिंशन्मुहूर्तात्मकस्य पुष्यनक्षत्रस्यैतावत्परिमितेषु भागेष्वतिक्रान्तेषु द्वितीया श्राविष्ठी अमावस्या परिसमाप्तिमेतीति ।२। अथ तृतीया श्रावष्ट्यमावास्या विचार्यते-तत्र सा युगस्यादित आरभ्य पञ्चविंशतितमेति ध्रुवराशिः (६६ ) पञ्चविंशत्या गुण्यते जातानि पञ्चाशदधिकानि षोडशशतानि (१६५०) मुहूर्तानां भवन्ति, तथा एकस्य च मुहूर्तस्य पञ्चविंशत्यधिकमेकं शतं द्वाषष्टिभागाः (१२५) एकस्य च द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः २५ । तथाहि—(१६५० १२५/२५ ) इति । तत्र द्विचत्वारिंशदधिकचतुःशतमुहूर्ताः (४४२) एकस्य च मुहूर्तस्य षट्
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy