SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा० ६ सू०२ पूर्णिमायां कुलोपकुलार्दिमम् २८७ - पुण्णिमा' प्रौष्ठपदी पूर्णिमा 'जुत्तत्ति' युक्तेति 'वत्तध्वं सिया' वक्तव्यं स्यात् शिष्येभ्यः कथनीयं स्यादिति । २। ‘आसोईं णं पुष्णिमं' आश्विनी आश्विनमासभाविनीं खलु पूर्णिमां 'किं कुलं जोएइ उवकुलं जोएइ, कुलोवकुलं जोएइ' किं कुलं युनक्ति, उपकुलं युनक्ति, कुलोपकुलं युनक्ति ? भगवानाह — 'कुलं वा जोएइ उवकुलं वा जोएइ' कुलमपि युनक्ति, उपकुलमपि युनक्ति किन्तु 'नो कुलोवकुलं जोएइ' नो— नैव कुलोपकुलं युनक्ति, अत्र कुलोपकुलयोर्द्वयोरेव चन्द्रेण सहयोग सद्भावात् कुलत्वेन उपकुलत्त्वेन किं किं नक्षत्र वर्त्तते ? इत्याह- 'कुलं जोएमाणे' कुलं युञ्जत् अत्र यदि कुलनक्षत्रं योगं करोति तदेत्यर्थः ' अरिसणीणक्खत्ते जोएइ' अश्विनी नक्षत्रं युनक्ि योगं करोति, तथा 'उबकुलं जोएमाणे ' उपकुलं युञ्जत्, यदि उपकुलनक्षत्रं योगं करोति तदा 'रेवई णक्खत्ते' रेवती नक्षत्रं ' जोएइ' युनक्ति चन्द्रेण सह योगं करोति, अतएव कथ्यते 'आसोई णं पुण्णमं' आश्विनीं खलु पूर्णिमां 'कुलं वा जोएइ उवकुलं वा जोएइ' कुलमपि युनक्ति उपकुलमपि युनक्ति, बा शब्दः सर्वत्र समुच्चयार्थकः । एषा पूर्णिमा अनेनैव कारणेन 'कुलेण वा जुत्ता उवकुलेण वा जुत्ता' कुलेनापि युक्ता उपकुलेनापि युक्ता भूत्वा 'आसोईणं पुष्णिमा' आश्विनी खलु पूर्णिमा 'जुत्ताति' युक्तेति 'वत्तव्वं सिया' वक्तव्यं स्यात् कथनीयं भवेत् ३ । अथाग्रेऽतिदेशेनाह - ' एवं ' इत्यादि ' एवं ' एवम् अनया रीत्या 'एएणं' एतेन पूर्वोक्तेन पूर्वप्रदर्शितप्रकारेण ‘अभिलावेणं' अभिलावेन सूत्ररचनारूपेण 'जाव' यावत् 'पोसिं पुण्णमं जेट्ठामूलिं पुण्णमं च ' पौष पूर्णिमां ज्येष्ठामूलीं ज्येष्ठमासभाविनीं पूर्णिमां च ' कुलोवकुलंपि जोएइ' कुलोपकुलमपि युनक्ति, पौष्यां पूर्णिमायां कुलोपकुलमार्द्रानक्षत्रम् ज्येष्ठामूल्यां पूर्णिमायां च कुलोपकुलमनुराधानक्षत्रमिति विज्ञेयम् । तत्र पौष पूर्णिमायां कुलं पुष्यनक्षत्रम्, उपकुलं पुनर्वसुनक्षत्रमस्ति, तथा ज्येष्ठामूल्यां पूर्णिमायामिति ज्येष्ठमासभाविन्यां पूर्णिमायां कुलं मूलनक्षत्रम् उपकुलं ज्येष्ठानक्षत्रं भवतीति कुलादीनि त्रीण्यपि नक्षत्राणि चन्द्रेण सह यथायोगं योगं कुर्वन्तीति, 'अवसेसासु' अवशेषासु पूर्वप्रदर्शितातिरिक्तासु पूर्णिमासु 'कुलोवकुला नत्थि' कुलोपकुलानि न सन्ति, तासु कुलानि उपकुलानि चैव चन्द्रेण सह योगं कुर्वन्ति न तु कुलोपकुलानीति भावः । कियत्पर्यन्तमित्याह - 'जाव' इत्यादि, 'जाव आसाठी पुण्णमा जुत्ताति वत्तव्वं सिया' यावत्-आषाढी पूर्णिमा वक्तव्यं स्यात् इत्येतत्पर्यन्तं पूर्वप्रदर्शितसूत्रालापकप्रकारेण ज्ञातव्यम् । आलापकाश्च स्वयमूहनीयाः कस्यां पूर्णिमायां किं कुलं किमुपकुलमिति प्रदर्श्यते - श्राविष्टीत आरभ्य आश्विनी पूर्णिमापर्यन्तं तिस्रः पूर्णिमास्तु पूर्वसूत्रे एव प्रदर्शिताः पौषी - उयेष्टा मूलीति पूर्णिमाद्वयं तु पर्वं व्याख्यायां प्रदर्शितम् । शेषास्तथाहि— कार्त्तिक्यां पूर्णिमायां कृतिकानक्षत्रं कुलं भरणी नक्षत्रमुपकुलम् ४। मार्गशीर्ष पूर्णिमायां मृगशीर्षनक्षत्रं कुलं रोहिणीनक्षत्रमुपकुलम् ५। पौषी पूर्व प्रदर्शिता कुला दित्रययोगयुक्तेति पूर्व द्रष्टव्यम् ६ । माघी पूर्णिमायां मघानक्षत्रं कुलम्, अश्लेषानक्षत्रमुपकुलम् "
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy