________________
चन्द्र प्रज्ञप्तिसूत्रे
व्याख्या — गौतमः पृच्छति - 'ता सावट्ठि णं' इति, 'ता' तावत् 'साविट्ठि णं' श्राविष्ठ श्रावणमास भाविनीं खलु 'पुण्णिमं' पूर्णिमां किं 'कुलं जोएइ' कुलं युनक्ति, किं कुलसंज्ञकं नक्षत्रं चन्द्रेण सह योगं कृत्वा श्राविष्ठीं पूर्णिमां परिसमापयति । एवमग्रेऽपि सर्वत्र योजना कर्त्तव्या, किं 'उव कुलं जोएइ' उपकुलं युनक्ति, किं 'कुलोवकुलं जोएइ' कुलोपकुलं युनक्ति ? भगवानाह - 'ता' तावत् 'कुलं वा जोएइ' कुलं वा युनक्ति, अत्र 'वा' शब्दस्य समुच्चयार्थकत्वात् कुलमपि युनक्तीत्यर्थः, एवमग्रेऽपि विज्ञेयम्, 'उवकुलं वा जोएइ' उपकुलमपि युनक्ति, 'कुलोवकुलं वा जोए ' कुलोपकुलमपि युनक्ति, तत्र 'कुल जोएमाणे' कुलं युञ्जत् कुलसंज्ञकं नक्षत्रं योगं कुर्वन्नित्यर्थः 'धािणक्खत्तं ' धनिष्ठानक्षत्रं 'जोएइ' युनक्ति, धनिष्ठानक्षत्रस्यात्र कुलसंज्ञकत्वात् 'उवकुलं जोए माणे' उपकुलं युञ्जत् 'सवणणक्खत्ते जोएइ' श्रवणनक्षत्रं युनक्ति, श्रवणनक्षत्रस्यात्रोपकुलसंज्ञकत्वात्, 'कुलोवकुलं जोएमाणे' कुलोपकुलं युञ्जत् 'अणिक्खत्ते' अभिजिन्नक्षत्रं 'जोए ' युनक्ति अभिजिन्नक्षत्रस्यात्र कुलोपकुलसंज्ञकत्वात् । अभिजिन्नक्षत्रं हि तृतीयायां श्राविष्ठयां पौर्णमास्यां किञ्चिदधिकद्वादशमुहूर्तेषु शेषेषु - चन्द्रेण सह योगं युनक्ति ततः श्रवणेन सहास्य सहचरत्वात् स्वस्य च तृतीय श्राविष्ठ्याः पौर्णमास्याः पर्यन्तवर्त्तित्वात् तदपि तां परिसमापयतीति विवक्षया 'युनक्ति इत्यभिहितम् । उपसंहारमाह - 'सावट्ठि णं' इत्यादि, 'साहिं णं पुण्णमं' श्राविष्ठीं खलु पूर्णिमां 'कुलं वा जोएइ, उवकुल वा जोएइ, कुलोवकुलं वा जोएइ' कुलं वा युनक्ति, उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति। ततः किमित्याह – 'कुलेण वा जुत्ता उवकुलेण वा जुत्ता, कुलोवकुलेण वा जुत्ता'कुलेनापि युक्ता, उपकुलेनापि युक्ता, कुलोपकुलेनापि युक्ता 'साविट्ठी पुण्णिमा' श्राविष्ठी पुर्णिमा 'जुत्ताति वत्तव्यं सिया' युक्तेति कुलादित्रिकैर्युक्ताऽस्तीति वक्तव्यं वाच्यं स्यात् | १ | 'ता' तावत् 'पोडवर णं पुण्णमं' प्रोष्ठपदी भाद्रपदीं भाद्रपद मासभाविनीं खलु पूर्णिमां 'किं कुलं जोएइ, उवकुल जोएइ, कुलोवकुलं जोएइ' किं कुलं युनक्ति, उपकुलं युनक्ति, कुलोपकुलं युनक्ति ? भगवानाह—'ता' तावत् 'कुल वा जीएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ ' कुलमपि युनक्ति, उपकुलमपि युनक्ति, कुलोपकुलमपि युनक्ति । तत्र कुलं जोएमाणे' कुलं युञ्जत्, यदा कुलसंज्ञकं नक्षत्रमंत्र पूर्णिमायां योगं करोति तदा 'उत्तरापोट्ठवयाणक्खत्ते' उत्तराप्रोष्ठपदानक्षत्रं ‘जोएइ’ युनक्ति योगं करोति, 'उवकुलं जोएमाणे' उपकुलं युञ्जत् 'पुव्वापोट्ठवया णक्खत्ते' पूर्वाप्रोष्ठपदानक्षत्रं 'जोएइ' युनक्ति, 'कुलोवकुलं जोएमाणे' कुलोपकुलं युञ्जत् 'सयभि सया णक्खत्ते जोएइ' शतभिषग् नक्षत्रं युनक्ति, अतएव 'पोवई णं पुष्णिमं' प्रोष्ठपदीं खलु पूर्णिमां 'कुलं वा जोएइ, उवकुलं वा जोएइ, कुलोवकुलं वा जोएइ' कुलं वा युनक्ति, उपकुलं वा युनक्ति, कुलोपकुलं वा युनक्ति, भाद्रपदपूर्णिमायाम् उत्तराप्रोपदा पूर्वाप्रोष्ठपदा शतभिषग्नक्षत्राणामेव कुलादि संज्ञकत्वात् । एवमधिकृत्यैव प्रौष्ठपदी पूर्णिमा 'कुलेण वा जुत्ता, उवकुलेण वा जुत्ता. कुलोवक्कुलेण वा जुत्ता' कुलेनापि युक्ता, उपकुलेनापि युक्ता, कुलोपकुलेनापि युक्ता 'पोवई
२८६