SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ રે चन्द्रप्राप्तिस्त्र 'जेट्टामूली' मूल नक्षत्रोपलक्षिता ज्येष्ठमासभाविनी पूर्णिमा ज्योष्ठामूली कथ्यते ११। 'आसाढी' भाषाढी-उत्तराषाढानक्षत्रोपलक्षिता आषाढमासभाविनी पूर्णिमा आषाढी कथ्यते १२॥ इति द्वादश पूर्णिमानामानीति । अथ कति कति नक्षत्राणि कस्यां पूर्णिमायां योगं कुर्वन्ति ? इति प्रश्नान् उत्तराणि च प्रदर्शयति-ता साविढि णं, इत्यादि 'ता' तावत् 'साविढि णं' श्राविष्ठी प्रावणमास भाविनों पूर्णिमां 'कइ नक्खत्ता' कतिनक्षत्राणि कियत्संख्यकानि नक्षत्राणि 'जोएंति' युञ्जन्ति कानि नक्षत्राणि चन्द्रेण सह योगं कृत्वा श्राविष्ठी पूर्णिमां समापयन्तीति भावः । भगवानाह'ता तिण्णि' इत्यादि 'ता' तावत् 'तिणि णक्खत्ता' त्रीणि नक्षत्राणि 'जोएंति' युञ्जन्ति योगं कुर्वन्ति त्रीणि नक्षत्राणि चन्द्रेण साधं यथायोगं संयुज्य श्राविष्ठों पूर्णिमां समापयन्ति 'तं जहा' तथथा तानीमानि --'अभिई' अभिजित् १ 'सवणो' २ श्रवणः 'धणिहा' धनिष्ठा ३। इमां पूर्णिमा वस्तुतः श्रवणो धनिष्ठा चेति द्वे एव नक्षत्रे श्राविष्टों पूर्णिमासी परिसमापयतः किन्तु अभिजिन्नक्षत्रं श्रवणेन सह संबद्धं वर्ततेऽतः पूर्णिमासमापने तस्यापि ग्रहणं कृतमिति १। एतत्कथं परिज्ञायते ? इति प्रश्ने तत्परिज्ञानं करणपरिज्ञानमन्तरेण न भवतीत्यन्यत्र प्रसिद्धममावास्यापौर्णमासीविषयकचन्द्रयोगपरिज्ञानार्थ करणं प्रदश्यते-- " नाउमिह अमावासं जइ इच्छसि कम्मि होइ रिक्खम्मि । अवहारं ठाविज्जा तत्तियरूवेहिं संगुणए ॥१॥ छावट्ठी य मुहुत्ता, बिसद्विभागा य पंच पडिपुण्णा । बासद्विभाग-सत्तसहिगो य इक्को हवइ भागो ॥२॥ एयमवहाररासिं, इच्छ अमावाससंगुणं कुज्जा । नक्खत्ताणं एत्तो, सोहणगविहिं निसामेह ॥३॥ बावीसं च मुहुत्ता, छायालीस बिसट्ठिभागा य । एयं पुणव्वसुस्स य, सोहेयव्वं हवइ वुच्छं ॥४॥ बावत्तरं संयं फग्गुणीण बाणउइ य बे विसाहासु । चत्तारि य वायाला, सोज्झा अह उत्तरासाढा ॥५॥ एयं पुणव्वसुस्स य बिसट्ठिभागसहियं तु सोहणगं । इत्तो अभीइआई, बिइयं बुच्छामि सोहणगं ॥६॥ अभिइस्स नव मुहुत्ता, बिसट्ठिभागा य हुंति चउवीसं । छावट्ठी य समत्ता, भागा सत्तटिछेकया ॥७॥ अउणसटुं पोढवया, तिसु चेव नवोत्तरं च रोहिणिया । तिसु नवनवएमु भवे, पुणव्वस फग्गुणीओ य ॥८॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy