SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwvvvvvvvvvvv ૨૪૮ चन्द्रप्राप्तिसूत्रे गन्तव्यम् तच्च करणम्--अन्यग्रन्थेभ्योऽवसेयम् । अत्रतु व्यवहारनयाश्रयणेन बाहुल्यतो यस्य नक्षत्रस्य यदा चन्द्रयोगस्यादिर्भवेत् तं प्रतिपादयितुमाह-'अभीई' इत्यादि 'ता' तावत् 'अभिइसवणा' अभिजिच्छ्वणो खल 'दुवे णक्खत्ता द्वे नक्षत्रे 'पच्छभागा' पश्चाद्भागे दिवसस्य पश्चाद्भागव्यापके 'समखेत्ता' समक्षेत्रे समस्तक्षेत्रभोग्ये अत्रायं विवेकः इदम भिजिन्नक्षत्रं समक्षेत्रम् अपार्यक्षेत्र द्वयर्धक्षेत्रं वा न किमप्यस्ति, किन्तु तत् श्रवण नक्षत्रेण सह संबद्धं गृहीतमित्यभेदोपचारेण समक्षेत्रं परिकल्प्य समक्षेत्रत्वेनोपात्तमिति । इमे द्वे नक्षत्रे 'साइरेग उणयालीसमुहुत्ते' सातिरेकैकोनचत्वा रिंशन्मुहूर्ते 'तप्पढमयाए' तत्प्रथमतयेति प्रथममेव 'सायं' सायं संध्याकाले, अत्र 'सायं' इति दिवसस्य कतितमाच्चरमभागादारभ्य यावद्रात्रेः कतितमो भागो भवेत् अर्थात् यावत्कालं नक्षत्रमण्डलालोकः परिस्फुटो न भवेत् तावत्परिमितः कालविशेषः 'साय' इति विवक्ष्यते तस्मिन् सायंकाले 'चंदेण सद्धिं जोयं जोएंति' चन्द्रेण साधं योगं युङ्कः । तत्र अभिजिन्नक्षत्रस्य च नव मुहूर्ताः तथा चतुर्विशतिरेकषष्टिभागाः, एकोनचत्वारिंशच्च सप्तषष्टिभागाः सन्ति, श्रवणस्य त्रिंशन्मुहर्ताः इत्युभयोमीटने द्वयोर्नक्षत्रयोः सातिरेका एकोनचत्वारिंशन्मुहूर्ता भवन्तीत्यत उक्तम् 'साइरेगउणयालीसमुहुत्ता' इति । यद्यपि अभिजिन्नक्षत्रयोगे प्रातः काले युगस्यादि भवति तथापि एकविंशनि सप्तषष्टिभागान् यावत् श्रवणनक्षत्रेण सह समक्षेत्रं भवति तत एवास्यापि पश्चाद्भागत्वेन विवक्षा कृता । श्रवणनक्षत्रं च मध्याह्लादूर्ध्वमपसरति दिवसे चन्द्रेण सह योगं करोति ततः श्रवणनक्षत्रसाहचर्यादभिजिन्नक्षत्रस्यापि सायंकाले चन्द्रेण सह योगं युनतीति विवक्षामवल म्ब्य सामान्यतः 'सायं चंदेण सद्धिं जोय जोएंति' इति कथितम् । अथवा युगस्यादिमति. रिच्याऽन्यदा बाहुल्यमाश्रित्येदं कथितमिति नात्र कश्चिद्दोषो विभावनीयः । एवमुक्तनक्षत्रद्वयं 'तओ पच्छा' ततः पश्चात् रात्र्यनन्तम् 'अवरं साइरेगं दिवसं' अपरं सातिरेकचतुविंशत्येक षष्ठिभागैकोनचत्वारिंशत्सप्तषष्टिभागरूपाधिक्यसहितम् अपरं द्वितीय दिवसं यावत् चन्द्रेण सह योगं युङ्कः । उपसंहारमोह - ‘एवं खलु' इत्यादि ‘एवं' एवम् अनेन प्रकारेण खलु-निश्चयेन 'अभिइसवणा' अभिजिच्छ्रवणौ 'दुवे णक्खत्ता' द्वे नक्षत्रे सायं समयादारभ्य 'एगराइं' एक रात्रिम् 'एगं च साइरेगं दिवसं' एकं च सातिरेकं किञ्चदधिकचतुर्विशत्येकषष्टिभागैकोनचत्वारिंशत्सप्तषष्टिभागाधिकं चंदेण सद्धिं जोगं जोएंति' चन्द्रेण साधू योगं युक्तः योग कुरुतः 'जोयं जोएत्ता' चन्द्रेण सार्धमेतावन्तं कालं योगं युक्त्वा तदन्तरं 'जोयं अणुपरियटुं ति' योगम् अनुपरिवर्तयतः ततः परावर्तेते, आत्मानं चन्द्रात् पृथक् कुरुत इत्यर्थः 'जोयं अणुपरियट्टित्ता' योगं चानुपरिवर्त्य 'सायं' सायं सन्ध्याकाले दिवसस्य कतितमे पश्चाद्भागे इत्यर्थः 'चंद' चन्द्रं धणिहाणं' घणिष्ठायै' 'चतुत्थीए छट्ठी' इति वचनात् प्राकृते चतुथ्यर्थे षष्ठी, वहुवचनं चात्विात् तेन धनिष्ठायै इत्यर्थः ‘समप्पंति' समर्पयतः तत्समये अभिजिच्छ्रवणधणिष्ठा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy