SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८८ चन्द्रप्रज्ञप्तिसूत्रे द्वादशमुहूर्तानन्तरो दिवसो भवति, तदा खलु जम्बुद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्यपाश्चात्ये नो सदा पञ्चदशमुहूर्तो दिवसो भवति, नो सदा पञ्चदशमुहर्ता रात्रिभवति, अनवस्थितानि खलु तत्र रात्रिन्दिवानि प्रज्ञप्तानि श्रमणायुष्मन्तः, पके पवमाहुः ।। एके पुनरेवमाहुः--तावत् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्धे अष्टादशमुहूत्तों दिवसो भवति तदा खलु उत्तरार्धे द्वादशमुहूर्ता रात्रिर्भवति, यदा खलु उत्तरार्धे अष्टादशमुहूत्र्तों दिवसो भवति तदा खलु दक्षिणार्धे द्वादशमुहूर्त्ता रात्रिर्भवति । तावत् यदा खलु दक्षिणार्धे अष्टादशमुहूर्तानन्तरो दिवसो भवति तदा खलु उत्तरार्ध द्वादशमुहूर्ता रात्रिर्भवति, यदा खलु उत्तरार्धे अष्टादशमुहूर्तानन्तरो दिवसो भवति तदा खलु दक्षिणार्धे द्वादशमुहर्ता रात्रिर्भवति । एवं सप्तदशमुहूत्र्तो दिवसः; सप्तदशमुहूर्तानन्तरः षोडशमुहूर्तः, षोडशमुहूर्तानन्तरः, पञ्चदशमुहूर्तः, पञ्चदशमुहूर्तानन्तरः, चतुर्दशमुहूर्तः, चतुर्दशमुहूर्तानन्तरः, त्रयोदशमुहूर्तः, त्रयोदशमुहूर्तानन्तरः, तावत् यदा खलु दक्षिणार्धे द्वादशमुहूत्तों दिवसो भवति तदा ख द्वादशमुहूर्ता रात्रिर्भवति, यदा खलु उत्तरार्धे द्वादशमुहूर्तानन्तरो दिवसो भवति, तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्यपाश्चात्ये नैवास्ति पञ्चदशमुहूत्र्तो दिवसः, नैवास्ति-पञ्चदशमुहूर्त्ता रात्रिर्भवति, व्यवच्छिन्नानि खलु तत्र रात्रिन्दिवानि प्रक्षप्तानि भवणायुष्मन्तः पके एवमाहुः ।३।।।सू० १॥ व्याख्याः -'ता' इति तावत् 'कह' कथं केन प्रकारेण 'ते' तव भवन्मते 'उदय संठिई' उदयसंस्थितिः 'आहिया' आख्याता कथिता ? ति वएज्जा' इति वदेत् वदतु कथयतु भवान् ! गौतमेन एवं प्रश्ने कृते भगवान् पूर्वमेतद्विषये परमतरूपास्तिस्रः प्रतिपत्तीः प्रदर्शयति-'तत्थ खलु' इत्यादि । 'तत्थ खलु' तत्र-उदयसंस्थितिविषये खल्लु 'इमाओ' इमाः अग्रे प्रदर्यमानाः 'तिण्णि' तिस्रः 'पडिवत्तीओ' प्रतिपत्तयः ‘पण्णत्ताओ' प्रज्ञप्ता कथिताः, 'तं जहा' तद्यथा ता यथा-'तत्थ' तत्र त्रिषु प्रतिपत्तिवादिषु मध्ये 'एगे' एके प्रथमाः 'एवं' एवं-वक्ष्यमाणप्रकारेण 'आहेसु' आहुः कथयन्ति 'ता' तावत् 'जया णं' यदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे जम्बूद्वीपनामके द्वीपे मध्यजम्बुद्वीपे 'दाहिणड्डे' दक्षिणार्धे दक्षिणदिक् स्थितेऽधभागे 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति 'तया णं' तदा खलु 'उत्तरड्ढेवि' उत्तरार्धेऽपि उत्तरदिकू स्थितेऽर्धभागेऽपि 'अट्ठारसमुहुत्तो दिवसे भवई' अष्टादशमुहर्मों दिवमो भवति । 'ता' तावत् 'जया णं' यदा खलु 'उत्तरड्ढे' उत्तरार्धे अटारसमुहत्ते दिवसे भवई' अष्टादशमुहूत्तों दिवसो भवति 'तया णं' तदा खलु 'दाहिणड्ढे वि' दक्षिणार्धेऽपि अट्ठारस मुहुत्ते दिवसे भवई' अष्टादशमुहूत्र्तो दिवसो भवति । 'ता' तावत् 'जया णं' यदा खलु 'दाहिणड्ढे' दक्षिणार्धे 'सत्तरसमुहुत्तो दिवसे भवइ' सप्तदशमुहूर्तो दिवसो भवति 'तया णं' तदा खलु 'उत्तरड्ढेवि' उत्तरार्धेऽपि 'सत्तरसमुहुत्तो दिवसो भवई' सप्तदशमुहूर्तो दिवसो
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy