SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७० पत्रपति नमः प्रोच्यते, पर्वतराजोऽपि स एव प्रोच्यते नान्यः कश्चिदन्यः पर्वत इति । अयमेको पर्वतो विंशतिनामभिः कथं ख्यात इति तेषामर्थाधिकारः प्रदर्श्यते तथाहि . (१) मन्दरः - पल्योपमस्थितिक मन्दराभिधदेवनिवासस्थानयोगात् । (२) मेरु:- तस्य समस्ततिर्यगूलोकमध्यभागस्य मर्यादाकारित्वात् । (३) मनोरमः — अतिसुरूपतया देवानां मनोरमणहेतुकत्वात् । (४) सुदर्शनः -- जाम्बूनदजातीय सुवर्णमयत्वेन वज्ररत्न बहुलत्वेन च मनोमोदजनक सुष्ठुद नवत्त्वात् । (५) स्वयंप्रभः - रत्नबहुलतया आदित्यादिनिरपेक्षस्वयं प्रभावत्त्वात् । (६) गिरिराजः - सर्व गिरीणामुच्चैस्त्वेन तीर्थकरजन्मोत्सवाभिषेकाश्रयत्वेन च गिरीणां मध्ये राजसादृश्यात् । (७) रत्नोच्चयः – नानाविधरत्नानामतिशयेन चयस्थानत्वात् । : (८) शिलोच्चयः – पाण्डुकम्बलादिशिलानां तदुपरि चय सद्भावात् । (९) लोकमध्यः - समस्त तिर्यगू लोकस्य मध्यवर्त्तित्वात् । (१०) लोकनाभिः --- स्थालमध्यस्थित समुन्नतवृत्तचन्द्रतुल्यत्वेन स्थालाकारतिर्यग्लोकस्य नाभिसादृश्यात् । (११) अच्छ:- - अतिनिर्मलजाम्बूनद सुवर्णवज्रादिरत्नबहुलत्वेन स्वच्छकान्तिमत्त्वात् । (१२) सूर्यावर्त :- सूर्यस्य उपलक्षणाच्चन्द्रग्रहनक्षत्रतारारूपाणां प्रदक्षिणावर्त्तस्थानत्वात् । (१३) सूर्यावरणः - सूर्यादिभिः परिभ्रमणशीलैरावृतत्वात् । (१४) उत्तमः – गिरीणां मध्ये सर्वोत्कृष्टत्वेन उत्तमत्वात् । (१५) दिशादिः - गोस्तनाका राष्ट्रप्रदेशात्मकरुचका देव दिग्विदिशामादिर्ज्ञायते, तस्यमध्यवर्त्तित्वात् (१६) अवतंसकः - गिरीणां चूडामणिसादृश्यात् । एषां षोडशानां नामसंग्राहकं गाथाद्वयं जम्बूद्वीपप्रज्ञप्तिप्रसिद्धं — यथा- - "मंदर - मेरु- मनोरम, - सुदंसण - सयंप्रभेय गिरिराया । रयणोच्चए सिलोच्चय, मज्झे लोगस्स नाभी य ॥१॥ अच्छे सूरियावत्ते, सूरियावरणे इय । उत्तमे य दिसाई य वर्डिसे इय सोळसे ॥२॥ छाया पूर्वप्रदर्शितनामभिः सुगमैवेति । (१७) धरणिकील: - पृथिव्याः कीलकसादृश्यात् । (१८) धरणिशृङ्गः --- पृथिव्याः शृङ्गसादृश्यात् ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy