SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ चन्द्रालित्रकाशिका टीका प्रा०-५सू०१ सूर्यलेश्यायाः प्रतिघातस्वरूपम् १६९ आख्याता 'ति वएज्जा' इति वदेत् स्वशिष्येभ्यः कथयेत् ‘एगे' एके पूर्वोक्ता द्वितीयाः एकमाहंसु' एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति ।२। 'एवं' मनेन प्रकारेण 'एएणं' एतेन पूर्वमनुपदप्रदर्शितेन 'अभिलापेण' आलापकप्रकारेण शेषा अपि प्रतिपत्तयः कथनीयाः । मत्रतु केवलं प्रतिपत्तय एव प्रदर्श्वन्ते, आलापकयोजना स्वयं करणीया, तथाहि--'ता मणोरमंसि गंपन्नयंसि' तावत् मनोरमे खलु पर्वते ।३। 'ता सुदंसगंसि णं पव्वयंसि' तावत् सुदर्शने खलु पर्वते ।४। 'ता सयंपभंसि ण पव्वयंसि' तावत् स्वयंप्रभे खलु पर्वते ५। 'ता गिरिरायंसि णं पब्वयंसि' तावत् गिरिराजे खलु पर्वते ।६। 'ता रयणुच्चयंसि णं पव्वयंसि' तावत् रत्नोचये खलु पर्वते ।७। 'ता सिलुच्चयंसि णं पव्वयंसि' तावत् शिलोच्चये खलु पर्वते ।। 'ता लोयममंसि णं पव्वयंसि' तावत् लोकमध्ये खलु पर्वते ।९। 'ता लोयणाभिंसि ण पन्चयंसि' तावत् लोकनाभौ खलु पर्वते ।१०। 'ता अच्छंसि खलु पव्वयंसि तावत् अच्छे खलु पर्वते ।११। 'ता सूरियावत्तंसि णं पव्वयंसि' तावत् सूर्यावत्तें खलु पर्वते ।१२। 'ता सूरियावरणंसि णं पव्वयंसि' तावत् सूर्यावरणे खलु पर्वते ।१३। 'ता उत्तमंसि णं पव्वयंसि' तावत् उत्तमे खलु पर्वते ।१४। 'ता दिसादिसि णं पव्वियंसि' तावत् दिशादौ खलु पर्वते ।१५। 'ता अवतंसंसि णं पव्वयंसि' तावत् अवतंसे खलु पर्वते ।१६। 'ता धरणिखीलंसि णं पव्वयंसि' तावत् धरणिकीले खलु पर्वते ।१७। 'ता धरणिसिंगंसिणं पव्वयंसि' तावत् धरणिशृङ्गे खलु पर्वते ।१८० 'ता पबतिदंसि णं पन्वयसि' तावत् पर्वतेन्द्रे खलु पर्वते ।१९। 'एगे पुण' एके विंशतितमप्रतिपत्तिवादिनः पुनः ‘एवमाहंसु' एवं वक्ष्यमाणप्रकारेण माहुः कथयन्ति 'ता' तावत् 'पन्वयरायसि णं 'पव्वयंसि' पर्वतराजे खलु पर्वते 'सरियस्स' सूर्यस्य 'लेस्सा' लेश्या तेजोरूपा 'पडिहया' प्रतिहता 'आहिया' अख्याता ‘ति वएज्जा' इति वदेत् । उपसंहारमाह'एगे' एके विंशतितमाः परमतवादिनः ‘एवं' एवं पूर्वोक्तप्रकारेण 'आहेसु' आहुः कथयन्ति ॥२०॥ यद्यप्येते मन्दरादयः सर्वेऽपि शब्दा वस्तुत एकार्थिका एव, तथापि भिन्नाभिप्रायत्त्वेन कथितत्वादेते विंशतिरपि प्रतिपत्तिवादिनो मिथ्याप्ररूपका एवेति प्रदर्य साम्प्रतं भगवान् स्वमतप्रदर्शयन्नाह-'वयं पुण इत्यादि । 'वयं पुण' वयं तु अत्र 'पुनः' शब्दः 'तु' इत्यर्थे, 'एवं' एवं वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः । तदेवाह-'ता' इत्यादि । 'ता' तावत् यत्र लेश्या प्रतिहता भवति स पर्वतः ‘मंदरे वि पवुच्चई' मंदरोऽपि प्रोच्यते, 'मेरूवि पवुच्चई' मेरुरपि प्रोच्यते 'जाव' यावत् , यावत्पदेन मध्यगतानां मनोरमादारभ्य पर्वतेन्द्रपर्यन्तानां सप्तदशानां ग्रहणं भवति द्वौ मन्दरमेरुनामानी पर्वतो पूर्व सूत्रे प्रोको । 'पव्ययरायावि पवुच्चइ' पर्वतराजोऽपि विंशति २२
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy