________________
चन्द्रप्राप्तिसूत्रे
तदा खलु जम्बूद्वीपस्य द्वीपस्य त्रीन् पञ्चचक्रभागान् अवभासयतः उद्द्योतयतः तापयतः प्रकाशयतः, तद्यथा-एकोऽपि सूर्य: एक द्वयधं (द्वितीयाध-सा मेक) पञ्चचक्रभागम् अव. भासयति ४, एकोऽपि सूर्यः द्वयधं (द्वितीयाधं-सार्द्धमेक) पञ्चचक्रभागम् अवभासयति उद्द्योतयति तापयति प्रकाशयति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूत्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्ता रात्रिर्भवति । तावत् यदा खलु एतौ द्वौ सूर्यो प्रर्वबाह्य मण्डलम् उपसंक्रम्य चारं चरतः तदा खलु जम्बूद्वीपस्य द्वीपस्य द्वौ पञ्च चक्रवालभागान् अवभासयतः उद्द्योतयतः तापयतः प्रकाशयतः । तावत् एकोऽपि सूर्य एकं पञ्च, चक्रभागम् अवभासयति उद्योतयति तापयति प्रकाशयति । तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्षिका अष्टादशमुहूर्त्ता रात्रिर्भवति, जघन्यको द्वादशमुहूतौ दिवसो भवति सू० १॥
॥ चन्द्रप्रज्ञप्त्यां तृतीयं प्राभृतं समाप्तम् ॥४॥ व्याख्या-'ता केवइयं' इत्यादि । 'ता' तावत् 'केवइयं' कियत्कं कियत्परिमितं क्षेत्रं 'चंदिमसूरिया' चन्द्रसूर्याः बहुवचनं च जम्बूद्वीपे चन्द्रद्वयसूर्यद्वयसद्भावात् 'ओभासेंति' अवभासयन्ति, तत्र अवमासस्तु ज्ञानस्य प्रतिभासोऽपि भवेदितितन्निराकर्तुमाह-'उज्जोति' उद्द्योतयन्ति, 'द्युतिर्दीप्तौ' इति धातोः प्रेरणायां रूपम-दीपयन्तीत्यर्थः, 'तवेंति' तापयन्ति, एतत् चन्द्रे कथं घटते तस्य शीतरश्मित्वेन प्रसिद्धत्वात, तत्राह-चन्द्रप्रकाशेऽपि आतपशब्दस्य लोके व्यवहारो दृश्यते, उक्तश्च "चन्द्रिका कौमुदी ज्योत्स्ना, तथा चन्द्रातपः स्मृतः ॥" इति कोषवचनात् आभाससहितं कुर्वन्तीत्यर्थः, तथा 'पगासें ति' प्रकाशयन्ति स्वतेजसा प्रकाशयुक्त कुर्वन्ति ? प्राय एकार्थिका इमे धातवः, देशभेदात् सर्वदेशीयानामवबोधार्थ प्रयुक्ता इति विज्ञेयम्' आहितं' आख्यातम् हे भगवन् भवन्मत एतद्विषये किमाख्यातम् ? 'ति' इति 'वएज्जा' वदेत् वदतु कथयतु हे भगवन् ! आषत्वाद् वदेत्, इति स्थाने वदतु, इति तकारख्यत्ययः कर्त्तव्यः । एवं गौतमेन प्रश्ने कृते भगवानेतद्विषये परतीथिकानां मिथ्याभावप्रदर्शनाय प्रथमं तेषां प्रतिपत्तीः प्रदर्शयति-'तत्थ खलु' इत्यादि । 'तत्थ' तत्र चन्द्रसूर्याणां क्षेत्रावभासनविचारे खलु 'इमाओ' इमाः वक्ष्यमाणाः 'बारस' द्वादश 'पडिबत्तीओ' प्रतिमत्तयः परमतरूपाः ‘पण्णत्ताओ' प्रज्ञप्ताः 'तं जहा' तद्यथा ता यथा 'तत्थ' तत्र तेषु द्वादशसु प्रतिपत्तिवादिषु मध्ये 'एगे एके केचन प्रथमाः 'एवं' एवं वक्ष्यमाणप्रकारेण 'आईसु' आहुः कथयन्ति । किं कथयन्तीत्याह-'ता' तावत् 'चंदिममोरया' चन्द्रसूर्यो, प्राकृते द्विवचनस्थाने बहुबचनं भवति तत्र द्विवचनाभावात्, तदुक्तम्-"बहुवयणेण दुवयणं' इति । अत्र चन्द्रसूयौ इति द्विवचनं तेषां परतीर्थिकानां मते एकस्य चन्द्रस्य एकस्य च सूर्यस्य मान्यता सद्भावात् एतौ चन्द्रसुयौ 'एगं दीवं' एक द्वीपं “एगं समुदं एकं समुद्रं च 'ओभासेंति' अवभासयतः 'उज्जोवेति उद्योतयतः 'तवेंति' तापयतः 'पगासेंति' प्रकाशयतः । 'एगे' एके इमे प्रथमास्तीर्थान्तरीया 'एवं पूर्वोक्तप्रकारेण 'आईसु' आहुः कथयन्ति ।१। एवमग्रेऽप्येकादशस्वपि प्रतिपत्तिषु योजना कर्तव्या, व्याख्यातु छायागम्याऽतो न