SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा०-२-३ सू० १ मण्डले २ प्रतिमुहूर्त्त सूर्यस्य गतेर्निरूपणम् ११५ आहुः कथयन्ति-यत् 'ता' तावत् 'सूरिए' सूर्यः 'छ छ जोयणसहस्साई' षट् षड्योज - नसहस्राणि षट् षट् सहस्रयोजनपरिमितं क्षेत्रं 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्त्तेन 'गच्छइ' गच्छति पारयतीत्यर्थः, 'एगे' एके प्रथमाः ' एवं ' एवं पूर्वोक्तप्रकारेण 'आहंसु' आहुः कथयन्ति । १ । 'एगे पुण' एके द्वितीयप्रतिपत्तिवादिनः पुनः ' एवं ' एवं वक्ष्यमाणप्रकारेण ‘आहंसु' आहुः कथयन्ति - 'ता' तावत् 'सूरिए' सूर्यः पंच पंच जोयणसहस्साईं' पश्च पञ्चयोजनस्हस्राणि 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्त्तेन 'गच्छइ' गच्छति 'एगे' एके द्वितीयाः ' एवं ' पूर्वकथितप्रकारेण 'आहंसु' आहुः |२| 'एगे पुन' एके केचन तृतीयप्रतिपत्तिवादिनः पुनः एवं' एवं वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति - 'ता' तावत् 'सूरिए' सूर्य: 'चत्तारि चत्तारि जोयणसहस्साईं' चत्वारि चत्वारि योजन सहस्राणि 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्त्तेन 'गच्छइ' गच्छति, 'एगे' एके तृतीयाः परतीर्थिकाः ' एवं ' एवं पूर्वोत प्रकारेण 'आहंसु' आहुः कथयन्ति | ३ | 'एगे पुण' एके पुनश्चतुर्थाः परतीर्थिकाः पुनः ' एवं ' वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति - 'ता' तावत् 'सूरिए' सूर्यः 'छवि पंच विचत्तारिवि जोयणसहस्साई' षडपि पश्चापि चत्वार्यपि योजनसहस्राणि 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्त्तेन 'गच्छइ' गच्छति 'एगे' एके चतुर्थाः ' एवं ' पूर्वोक्तप्रकारेण 'आहंसु' आहुः कथयन्ति |४| चतुर्थस्यायं भावः:- सूर्य एकैकेन मुहूर्तेन षट्सहस्रयोजनानि पञ्चसहस्रयोजनानि चतुः सहस्रयोजनान्यपि च गच्छतीति । भगवान् तेषां यथाक्रमं स्वरूपं प्रदर्शयति 'तत्थ णं जे ते ' इत्यादि । ‘तत्थ णं' तत्र चतुर्षु प्रतिपत्तिवादिषु मध्ये खलु 'जे ते एवमाहंसु' ये ते प्रथमाः परमतवादिनः एवमाहुः एवं कथयन्ति यत् 'ता' तावत् 'छ छ जोयणेसहस्साई' षट् षड्योजनसहस्राणि ष्ट् षट् सहस्रयोजनानि 'सुरिए' सूर्यः 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्तेन 'गच्छइ' गच्छतीति 'ते' ते एवं वक्तारः ' एवं ' एवं अनेन वक्ष्यमाणेन अभिप्रायेण 'आइस' आहुः कथयन्ति, तदेव प्रदर्शयति 'जया णं' यदा खलु 'सूरिए' सूर्य : 'सव्वन्मंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति तया णं' तदा खलु 'उत्तमकट्टपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्ष प्राप्तः 'उक्कोसए' उत्कर्षकः सर्वाधिकप्रमाणकः 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादशमुहूत दिवसो भवति 'जहण्णिया' जघन्यका सर्वलवी 'दुवालसमुहुत्ता राई भवर' द्वादशमुत्त' रात्रिर्भवति, सूर्यस्य सर्वाभ्यन्तरमण्डल संचरणसमये अष्टादशमुहूर्त्तेभ्यो न न्यूनो नाधिको दिवसो भवति, न च द्वादशमुहूर्तेभ्यो न्यूनाधिका वा रात्रिर्भवतीति भावः । ' तंसि च णं दिवसंसि' तस्मिव खलु दिवसे 'एगं जोयणसयसइस्सं' एकं योजनशतसहस्रम् एकलक्षयोजनं तदुपरि 'अट्ठ य जोयणसहस्साई' अष्ट च योज
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy