________________
चन्द्रातिप्रकाशिका टीका प्रा०१-८ सू०१६ आदितः अष्टप्राभृतेग्यागत विषयस्योपसंहारः ९७
छाया -- तानि सर्वाण्यपि खलु मण्डलपदानि अष्टचत्वारिंश एकषष्टिभागा योजनस्य बाहल्येन सर्वाण्यपि खलु मण्डलान्तराणि द्वे योजने विष्कम्भेण । पष खलु अध्वा पकं त्र्यशीतिः योजनशतम् सप्रतिपूर्णानि पञ्चदशोत्तराणि योजनशतानि आवधाता इति वदेत् । तावत् अभ्यन्तराद् मण्डलपदाद् बाह्यं मण्डलपदं बाह्याद् मण्डलपदाद् अभ्यन्तरं मण्डलपदम् एष खलु अध्वा पञ्चदशोत्तराणि योजनशतानि अष्टचत्वारिंशच्च एक षष्टिभागा योजनस्य आख्याता । तावद् आभ्यन्तराद् मण्डलपदाद् बाह्य मण्डलपदं बाह्यांद् मण्डलपदाद् आभ्यन्तरं मण्डलपदम् एष खलु अध्वा पञ्चनवोत्तराणि योजनशतानि, त्रयोदश एकषष्टिभागा योजनस्य आख्यात इति वदेत् । अभ्यन्तरेभ्यः मण्डलपदेभ्यः, बाह्येभ्यः मण्डलपदेभ्यश्च बाह्यानि मण्डलपदानि, अभ्यन्तराणि मण्डलपदानि एष बलु अध्वा कियत्कः आख्यात इति वदेत् ? तावत् पंचदशोत्तराणि योजशतानि आण्यात इति वदेत् ॥सूत्र १६ ॥
3
इति चन्द्रप्रप्त्यां प्रथमस्य प्राभृतस्य अष्टमं प्राभृतप्राभृतं समाप्तम् ॥१८॥ ॥ इति प्रथमं प्राभृतं समाप्तम् ॥१॥
व्याख्या- 'ता सव्वा वि णं' तानि सर्वाण्यपि खलु 'मंडलवया' मण्डलपदानि प्रत्येकम् 'अडयालीसं च एगसट्टिभागा जोयणस्स' अष्टचत्वारिंशच्च एकषष्टिभागा योजनस्य 'बाहल्लेणं' बाहल्येन नियतानि सन्ति । बाहल्यस्योपलक्षणत्वात् आयामविष्कम्भपरिक्षेपैर्यथासम्भवं प्रत्येकमनियतानि सन्तीति वाच्यम् । तथा 'सव्वा विणं मंडलंतरिया' सर्वाण्यपि मण्डलान्तरकाणि मण्डलान्तराणि प्रत्येक मण्डलमाश्रित्य व्यवधानानि 'दो दो जोयणाई' द्वे द्वे योजने 'विक्खंभेणं' विष्कम्भेण सन्ति । 'एस णं' एष खलु योजनस्याष्टचत्वारिंशदेकषष्टिभागयुक्तयोजनद्वयरूपः 'अद्धा' अध्वा सूर्यमार्गः 'एगं तेयासीई जोयणसयं' एकं त्र्यशीतिः योजनशतं त्र्यशीत्यधिकमेकं योजनशतं ( १८३ ) त्र्यशीत्यधिकैकशतयोजन समुत्पन्नः 'सपडिपुण्णाई' स प्रतिपूर्णानि संपूर्णानि न न्यूनाधिकानि 'पंचदमुत्तराई जोयणसयाई' पश्चदशोत्तराणि योजनशतानि दशोत्तराणि पञ्चशतयोजनानि ( ५१०) 'आहिए' आख्यातः मार्गः ' इति वज्जा' इति वदेत् तानि दशोत्तर पश्चशतयोजनानि कथं भवेदिति प्रदश्यते सूर्यस्य प्रत्यहोरात्रं प्रतिमण्डलभ्रमणं योजनस्याष्टचत्वारिंशदे कषष्टिभागयुक्त योजनद्वयेन (२-४८ ६१) भवति । लानि च त्र्यशीत्यधिकमेकं शतमतो द्वयोर्गुणनं कर्त्तव्यम्, तथाहि प्रथमं द्वे योजने त्र्यशीत्यधिकशतेन गुण्येते जातानि षट्षष्ट्यधिकानि त्रीणि शतानि (३६६) पुनश्च अष्टचत्वारिंशदेकषष्टिभागास्त्रयशीत्यधिकेन शतेन गुण्यन्ते ते च जाताः चतुरशीत्यधिकसप्ताशीतिशत ( ८७८४ ) संख्यकाः । एते च योजनानयनार्थमेकषष्ट्या विभज्यन्ते लब्धं चतुश्चत्वारिंशदधिकमेकं शतम् (१४४) तच्च पूर्वप्राप्तयोजनराशौ (३६६) प्रक्षिप्यते जातानि दशोत्तराणि पश्चशतानि (५१०) अस्यैवार्थस्य स्पष्टीकरणार्थं पुनराह - 'ता' इत्यादि ।
मण्ड
१३