SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिका टीका प्रा०१-८सू०१४ मण्डलपदानां प्रमाणनिरूपणम् ९१ पञ्चविशत्यधिकद्विशतोत्तराणि त्रीणि सहस्राणि (३२२५) एषोऽङ्कसमुदायः सर्वाभ्यन्तरमण्डलपरिमागे नवाशीत्यधिकपंचदशसहस्रोत्तरत्रिलक्ष (३१५०८९) रूपेऽधिकत्वेन प्रक्षिप्यते, तेन जातानि चतुर्दशोत्तरत्रिशताधिकाष्टादशसहस्रोत्तराणि त्रीणि लक्षाणि (३१८३१४) इति सूत्रोक्त परिधिपरिमाणमुपलब्धम् । ___ तथा सप्तदशयोजनानाम् , अष्टत्रिंशदेकषष्टिभागानामुपरि पञ्चसप्तत्यधिकानि त्रीणिशतानि (३७५) शेषत्वेनोद्धरन्ति तानि त्र्यशीत्यधिकशतेन गुणनात् जातानि पञ्चविंशत्यधिकषट्शनोत्तराणि अष्टषष्टिसहस्राणि (६८६२५)एतेषां पञ्चाशदधिकशतोत्तरसहस्रद्वयरूपेण (२१५०) छेदराशिना भागो हियते तदा लब्धा एकत्रिंशदेकषष्टिभागा योजनस्य, शेषमल्पत्वात्त्यकम् परं सूत्रकृता व्यवहारनयमतेन परिपूर्णयोजनविवक्षया 'पञ्चदशोत्तराणि" इत्युक्तम् । ___ एवं यदाऽऽयामविष्कम्भपरिधिपरिमाणं भवति 'तया णं' तदा खलु 'उत्तमकट्टपत्ता' उत्तमकाष्ठा प्राप्ता परमप्रकर्षसम्पन्ना 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा सर्वगुर्वीयतोऽनन्तरमाधिक्याभावात् 'अट्ठारसमुहुत्ता राई भवइ' अष्टादशमुहूर्ता रात्रिर्भवति, तथा 'जहण्णए' जघ. न्यकः सर्वलघुः यतोऽनन्तरं लाघवाभावात् 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूत्तों दिवसो भवतीति । 'एस णं' एतत् खलु ‘पढमे छम्मासे' प्रथमं षण्मासम् । 'एस णं' एतत् खलु ‘पढमस्स छम्मासस्स' प्रथमस्य षण्मासस्य 'पज्जवसाणे' पर्यवसानम्-अन्तिममहोरात्रम् । यतोऽ सूर्यस्य चारक्षेत्राभावात् ।।सू०१४॥ ॥ एतत् रात्रिवृद्धिरूपं प्रथमं षण्मासम् ॥ गत सूर्यसंवत्सरस्य मण्डलपद रूपं प्रथमं षण्मासम् साम्प्रतं तत्सम्बद्धमेव द्वितीयं षण्मासं प्ररूप्यते, तस्येदमादिसूत्रम्-‘से पविसमाणे सुरिए' इत्यादि । मूलम्-से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि वाराणंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सुरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया | सा मंडलवया अडयालीसं एगसट्ठिभागा जोयणस्स बाहल्लेणं, एगं जोयणसयसहस्सं छच्च चउप्पण्णे जोयणसयाइं छव्वीसं च एगसटिभगा जोयणस्स आयामविक्खंभेण, तिण्णि जोयणसयसहस्साई अट्ठारससहस्साई दोण्णि य सत्ताणउए जोयणसयाई परिक्खेवणं, तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगसहिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवई दोहिं एगसट्ठिभागमुहुत्तेहि अहिए । से पविसमाणे सरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy