SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्ति प्रकाशिका टोका प्रा० १-८ सू० १४ मण्डलपदानां प्रमाणनिरूपणम् ८३ रेकषष्टिभागामुहूर्तरूनः, द्वादशमुहूर्ता रात्रिर्भवति चतुर्भिरेकषष्टिभागमुहूर्तरधिका । एवं खलु पतेन उपायेन निष्क्रमन् सूर्यः तदनन्तरात् मण्डलात् तदनन्तरं मण्डलम् उपसं. क्रामन् २ पञ्च योजनानि पञ्चत्रिशच्च एकषष्टिभागा योजनस्य एकैकस्मिन् मण्डले विष्क म्भवृद्धिम् अभिवर्धयन् २ अष्टादश योजनानि परिरयवृद्धिम् अभिवर्धयन् २ सर्वबाह्य मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः सर्वबाह्य मण्डलम् उपसंक्रम्य चार चरति तदा खलु तानि सर्वायपि मण्डलपदानि अष्टचत्वारिंशद् एकष्टिभागा योजनस्य बाहल्येन, एकं योजनशतसहस्रं षट् षष्टिः योजनशतानि आयामविष्कम्भेण, त्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण, तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्भवति, जघन्यकः द्वादशमुहूत्र्तो दिवसो भवति । एषा खलु प्रथमा षण्मासी । एतत् खलु प्रथमायाः षण्मास्याः पर्यवसानम् ॥१४॥ व्याख्या---'ता' तावत् ' 'सव्वा वि णं' सर्वाण्यपि खलु 'मंडलवया' मण्डलपदानि मण्डलरूपाणि पदानि सूर्यमण्डलस्थानानीत्यर्थः 'केवइयं' कियत्कानि कियत्प्रमाणानि 'बाहल्लेणं' बाहल्येन स्थौल्येन तथा 'केवइयं' कियत्कानि कियत्प्रमाणानि 'आयामविक्खंभेणं' आयामविष्कम्भेण' आयामः दैध्ये विष्कम्भः विस्तारः तयोः समाहारे आयामविष्कम्भं, तेन आयामविष्कम्भेणेत्यर्थः दैर्येण विस्तारेण च कियत्प्रमाणानि सर्वाण्यपि मण्डलपदानीति भावः, तथा 'केवइयं' कियत्कानि कियत्प्रमाणानि 'परिक्खेवेणं' परिक्षेपेण परिधिना, कियत्प्रमाणा तेषां परिधिरिति भावः 'आहिता' आख्यातानि कथितानि तीर्थकरैः 'इति' इति-एतद्विषयं 'वदेज्जा' वदेत् वदतु कथयतु हे भगवन् इति गौतमस्य प्रश्नः । भगवानाह-'तत्थ' तत्र खलु निश्चयेन 'इमा' इमा वक्ष्यमाणाः 'तिण्णि' तिस्रः 'पडिवत्तीओ' प्रतिपत्तयः परमतरूपाः 'पण्णत्ताओ' प्रज्ञप्ताः कथिता अन्यैरन्यैस्तीर्थान्तरीयैरिति, 'तं जहा' तद्यथा-ता यथा-'तत्थ' तत्र तिसृषु प्रतिपत्तिषु. मध्ये 'एगे' एके केचन प्रथमास्तीर्थान्तरीयाः ‘एवं' वक्ष्यमाणप्रकारेण 'आईसु' आहुः कथयन्ति । किमाहुरित्यत्राह-'ता' इत्यादि 'ता' तावत् 'सव्वावि णं' सर्वाण्यपि खलु 'मंडलवया' मण्डलपदानि, 'मंडलवया' इति सूत्रे स्त्रीत्वं प्राकृतत्वात् , तानि सर्वाण्यपि मण्डलपदानि प्रत्येकं 'जोयणं' योजनमेकं 'बाहल्लेणं' बाहल्येन स्थौल्येन, तथा 'एग जोयणसहस्सं' एकं योजनसहस्रम् एक सहस्रयोजनम् , 'एग' एकं 'तेत्तीसं' त्रयस्त्रिंशत् 'जोयणसयं' योजनशतम् , त्रयस्त्रिंशदधिकमेकं शतं योजनानाम् 'आयामविक्खंभेणं' आयाभविष्कम्मेण दैर्ध्यविस्तारेण, 'तिष्णि जोयणसय. सहस्साई' त्रीणि योजनशतसहस्राणि सहस्रत्रययोजनानि 'तिणि य नवनवईजोयणसयाई' त्रीणि च नवनवतियोजनशतानि नवनवत्यधिकशतत्रय योजनानां 'परिक्खेवेणं' परिक्षेपेण परिधिना 'पण्णत्ता' प्रज्ञप्तानि कथितानि मण्डलपदानि । उपसंहारमाह-'एगे एवमाहंसु' एके केचन प्रथमाः एवं पूर्वोक्तप्रकारेण आहुः कथयन्तीति प्रथमा प्रतिपत्तिः ।१। एषामेवं कथनं मिथ्याभावगर्भितं वर्तते, कथमित्याह-एषां प्रथमास्तीर्थान्तरीया स्वमते आयामविष्कम्भप्रमाणं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy