________________
चन्द्रशतिसूत्रे
।४। पञ्चमाः - समचक्रवालसंस्थिता समत्वेन चक्राकारा मण्डलसंस्थितिरिति वदन्ति |५| षष्ठाःविषमचक्रवालसंस्थिता चक्राकारे सत्यपि निम्नोन्नतत्वेन विषमत्वं वर्त्तते एतादृशी मण्डलसंस्थितिरिति वदन्ति | ६ | सप्तमाः - चक्रार्द्धचक्रवालसंस्थिता अर्द्धचक्राकारा मण्डलसंस्थितिरिति |७| अष्टमास्तीर्थान्तरीयास्तु छत्राकारसंस्थिता उत्तानीकृत छात्रा कृतियुक्ता मण्डलसंस्थितिरिति वदन्ति ८] एता अष्ट प्रतिपत्तयः परमतरूपाः तीर्थान्तरीयाणां वर्त्तन्ते । अथ भगवान् स्वमतं प्रकट यति - 'तत्थ जे ते' इत्यादि । 'तत्थ' तत्र अष्टसु प्रतिपत्तिषु मध्ये 'जे ते' ये ते केचित् अष्टमा इत्यर्थः ' एवं ' वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति - यत् 'ता' तावत् छत्तागारसंठिया' छत्राकारसंस्थिता उत्तानीकृतछत्राकारवती 'मंडलसंठिई' मण्डलसंस्थितिः 'आहिते ति' आख्याता 'इति' इति 'वदेज्जा' वदेत् कथयति । 'एएणं' एतेन पूर्वमनुपदं प्रदर्शितेन 'नएणं' नयेन नयो नाम यथावस्थितवस्तुजाताभिप्रायविशेषः 'ज्ञातुरभिप्रायो नयः' इति वचनात् तेन यथावस्थितस्वरूपेण 'उत्तानीकृतछत्राकार संस्थिता मण्डलसंस्थितिर्वर्त्तते' एवं रूपेण 'णायव्वं' ज्ञातव्यं हे गौतम ! किन्तु 'नो चेवणं' नैव खलु-निश्चयेन न खलु 'इयरे हिं' इतरैः अष्टमप्रतिपत्तेः पूर्वं प्रदर्शितैः सप्तभिर्ज्ञातव्यं तेषु यथावस्थितवस्तुतत्त्वाभावादित्यवधेयम् ॥ ॥ प्रथमस्य प्राभृतस्य सप्तमम् प्राभृतप्राभृतं समाप्तम् ॥१-७॥
८०
॥ अथ प्रथमस्य प्राभृतस्याष्टमं प्राभृत प्राभृतं प्रारभ्यते ॥
पूर्वं सप्तमे प्राभृतप्राभृते मण्डलसंस्थानमुक्तम् अत्र च - पूर्वं द्वारगाथायां यत् 'विक्रंखभ' इति विष्कम्भ इति कथितं तदत्र मण्डलपदानां बाहल्यायामविष्कम्भपरिक्षेपत्वेन प्रमाणं प्रदर्शयति - 'ता सव्वा विणं मंडलवया' इत्यादि ।
मूलम् - ता सव्वा वि णं मंडलवया केवइया बाहल्लेणं, केवइया आयामविक्खंभेणं, केवइया परिक्खेवेणं आहिया ? तिवदेज्जा । तत्थ खलु इमा तिणि पडि
ओ पण्णत्ताओ तं जहा तत्थेगे एवमाहंसु - ता सव्वावि णं मंडलवया जोयणं वा हल्लेणं एग जोयणसहस्सं एगं तेत्तीस जोयणसयं आयामविक्खंभेणं, तिष्णि जोयणसहस्सा तिणि य णवणउई जोयणसयाई परिक्खेवेणं पण्णत्ता, एगे एवमाहंसु । १ । एगे पुण एवमाहंसु - ता सव्वा वि णं मंडलवया जोयणं बाहल्लेणं, एगं जोयणसहस्सं एवं चचउत्तीस जोयणसयं आयामविक्खंभेणं तिष्णि जोयणसहस्साइं चत्तारि बिउत्तराई जोयणसयाईं परिक्खेवेणं पण्णत्ता एगे एवमाहंसु |२| एगे पुण एवमा सु-ता सव्वा बिणं मंडलवया जोयणं बाहल्लेणं, एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं आयामविक्खंभेणं, तिण्णि जोयणसहस्साइं चत्तारि पंचुत्तराई जोयणसयाई परिवखेवेणं पण्णत्ता, एगे एवमाहंसु |३|